________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
भी व्यव- क्षेत्र तथाविधदानं शुद्धश्रावकाभावात् वयमपि स्तोकेप्यपराधे उग्रं प्रायश्चित्तं दद्मः तथा गुरुपारंपर्यसमागमात् , तथा यानि हारपत्रस्य-मा नत्थी संकियसंघाडेत्यादि प्रागुक्तगाथोपन्यस्तानि शंकितादीनि पदानि संभवेन यथाक्रमं तथेति समुच्चये विभाषेत ब्रूयात् यथा पीठिकाs-li प्रायश्चित्तसूत्रमनुसृत्य प्रायश्चित्तं दीयते, तदिदानी विस्मृतं शंकितं जातं न चार्थे स्मरामि, ततः कथं प्रायश्चित्तं प्रयच्छामि, नंतर अथवा प्रायश्चित्तं पतिपन्ने सति तत्तपस्त्वयेह कर्त्तव्यं तत्र चेयमस्माकं सामाचारी बहिर्भूमिमात्रमपि संघाटकं विना न गंतव्यं,
यदि पुनः कोपि गच्छति ततस्तस्मै प्रायश्चित्तमत्युग्रं ददामि, इत्येव यथासंभवं शंकितादीनि पदानि बृयात् नतु दद्यादालो॥३६॥
चनामिति, यस्तु निर्गमनशुद्ध आगमनेन तु शुद्धोऽशुद्धो वा प्रतीच्छयते । तस्यालोचनायां विधिर्वक्तव्यः तत्र यदुक्तमधस्तात | अवराहे दिवसतो पसच्छंमि इति तदिदानी व्याख्यानयंति ।।
दव्यादिचउरभिग्गह, पसत्थमपसत्थे ते दुहेक्केके ।
अपसत्थे वज्जेउं, पसत्थएहिं तु बालोए ॥ भा० १२२ ।। अपराधालोचनायां दीयमानायां द्रव्यादयो द्रव्यक्षेत्रकालमावाश्चत्वारश्चतुःसंख्याका अपेक्षणीया भवंति, तथा अभिग्गहत्ति दिशामभिग्रहः कर्त्तव्यस्ते च द्रव्यादयो दिशश्च एकैकप्रत्येकं द्विधा द्विप्रकारास्तद्यथा, प्रशस्ता अप्रशस्ताच, तत्राप्रशस्तान् द्रव्यादीन प्रशस्ताश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्यादिभिर्दिविशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्य आलोचयेत् , आलोचनां दद्यात् , तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह ।
॥३६॥
For Private and Personal Use Only