________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवहारसूत्रस्य पीठिकानंतरः।
॥३४॥
स्तावंतं कालं प्रतीक्षाप्यते, यावत् वास्तव्यस्य वयावृत्तस्य इत्वरकालः समाप्तिमुपयाति अथ न प्रतीक्षते तहि विसृज्यते, एष द्वयोरित्वरयाईयावृत्यकारापणविधिः अथ एक इत्वरः एको यावत्कथिकस्तत्राह तुन्लेसुव इत्यादि तुल्ययोर्लन्ध्या समान-al योर्यो यावत्कथिकः स कार्यते, इत्वरोऽन्यस्योपाध्यायादेः संनियोजनीयः अथ वास्तव्यो यावत् कथिकस्तर्हि स भण्यते विश्राम्य, त्वं तावत् यावदित्वरः करोति तथाचाह तस्य वास्तव्यस्य वैयावृत्त्यकरस्य मतेन इच्छया इत्वरो वा कार्यते वैयावृत्यं अथ वास्तव्यस्तथा प्रज्ञापितोपि नेच्छति तर्हि न कार्यते स हि पश्चादपि यास्यति, । तत इतरो वास्तव्यो न करिष्यतीति, अथ इत्वरो यावत्कथिकश्च द्वावपि लब्धिको तत्रयावत्कथिकः कार्यते, इत्वरो अन्यस्य नियुज्यते, विसृज्यते वा अथवा इत्वरः सलब्धिकायावत्कथिकोऽलब्धिकस्तत्र यावत्कथिको भण्यते विश्राम्य, तावत् यावदेष इत्वरः मलब्धिकः करोति । पश्चात्त्व मेव करिष्यसि, अथ नेच्छति तर्हि स एव कार्यते इतरस्त्वन्यस्मै दीयते, तस्य तत्रानिच्छायां विसृज्यते । अथेत्वरोऽलन्धिको यावत्कथिको लब्धिमान् तत्र यावत्कथिकः कार्यते इतर उपाध्यायादेः समप्यते अथ तस्य तत्रानिच्छा तर्हि विसृज्यते इति, इह यदि वास्तव्यवैयावृत्यकरणे अननुज्ञातो वैयावृत्यं कारयति यदिवानापृच्छया अन्यं चैयावृत्यकर स्थापयति । तदा तस्याचार्यस्य बहवो दोषास्तानेवाह ।। अणणुलाए लहगा अवियत्तमसहजोगदाणादी। निजरमहती हु भवे, तवस्तिमादीणकरणेवी॥१०९॥ ___वास्तव्यवैयावृत्त्यकरणामनुज्ञायामुपलक्षणमेतत्तस्यानापृच्छायां वा यद्यागंतुकमित्वरं वैयावृत्त्ये स्थापयति ततस्तस्य प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः अन्ये ब्रुवते अनापृच्छायां मासलघु, अननुज्ञायां चतुलेघु अन्यच्चाननुज्ञायामनापृच्छायो वा
For Private and Personal Use Only