________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैयावत्यपदे अन्यस्यत्वास्य स्थापने वास्तव्यस्य अवियत्तमप्रीतिरुपजायते अप्रीत्या च कलहं कुर्यात् असाहगा जोग्गदाणादी इति, यानि दानादीनि दानश्रद्धादीनि कुलानि आचार्यस्य प्रायोग्याणि तान्यागंतुकवैयावृत्यकरस्य न साधयति, न कथयति तस्मात् स इत्वर मागंतुकोवैयावृत्त्यकरः प्रज्ञाप्यते, त्वं तपस्यादीनां आपकादीनां वैयावृत्यं कुरु, तेषामपि क्रियमाणे वैयावृत्त्ये महती निर्जरा तदेवं वैयावृत्त्यद्वारं गतमिदानी क्षपणद्वारावसरः । ____ आवकही इत्तरिय इत्तरिय विगिट्ठ तह अविगिटे य; समणामंतणखमणे, अणिच्छमाणं नउ नियोगो ॥ ११ ॥
क्षपक उपसंपद्यमानो द्विधा यावत्कथिक इत्वरश्च, तत्त्वरो द्विधा विकृष्टतपःकारी अविकष्टतपःकारी च, तत्र चतुर्थषष्ठाष्टमकारी अविकृष्टतपःकृत, दशमादितपकारी विकृष्टतपःकृत्तयोईयोरप्युपसंपद्यमानयोः समणामंतणत्ति आचार्येण खगणस्य स्वगच्छस्थामंत्रणं प्रच्छन्नं कर्त्तव्यं, आर्या एप विकृष्टतपःकरणार्थमविकृष्टतपःकरणार्थ वा समागतः, किं प्रतीक्ष्यतामुत प्रतिषिध्यतामिति ? तत्र यदि तेषामनुमतं भवति, तदा प्रतीप्यते, अनिच्छायां प्रतिषिध्यते, यदि पुनः केचिन्मन्यते केचिन्न मन्यते ते तर्हि यः कश्चिन्भेष्टवान् तमनिच्छंतं तस्य क्षपकस्य वैयावृत्ते बलान नियोजयेत्, बलाभियोगस्य सूत्रे निषेधात, यस्तु प्रतीच्छितः। स प्रष्टव्यः किं त्वं वैकृष्टं तपः करोषि अविकृष्टं वा ? यदि ब्रूते अविकृष्टं, ततो भूयोपि पृष्टव्यं त्वं पारणकदिने कीदशो भवसि, यदि प्राह, ग्लानोपमः, तबाह ।
For Private and Personal Use Only