________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
वेदितव्यः गता ज्ञानदर्शनोपसंपत् । इदानीं चारित्रोपसंपत् भावनीया, तत्र काले आवकहाएय इति व्याख्यानयन् वेयावचेइति पदं व्याख्यानयति वेयावच्चेत्यादि वैयावृत्त्यकरो वैयावृत्त्यार्थ उपसंपनः पुनर्द्विधा इत्वरः स्वल्पकालभावी यावत्कथितो यावजीवभावी अस्य च द्विविधस्यापि वैयावृत्त्यकारापणविधिरयं, एको गच्छवासी वैयावृत्त्यकरोपरः प्राघूर्णकः स च वक्ति, अहं वैयावृत्त्यं करोमि तत्र विधिमाह । तुल्लेसु जो सुल्लद्धी अन्नस्सव वारएणनिच्छंते;तुल्लेसुव श्रावकही तस्स मएणं च इत्तरितो भा०॥१०॥
यदि द्वावपि कालतस्तुल्यावित्वरौ च तत्र यद्येको लब्धिमान् अपरोऽलन्धिकस्तर्हि तयोस्तुल्ययोर्यः सलन्धिकः स कार्यते, इतरस्तु उपाध्यायादिभ्यो दीयते अथ द्वावपि यावत्कथिको तत्रापि यो लब्धिमान् स कार्यते, इतरोऽन्येभ्यो दीयते, यदि पुनावपि सलन्धिको यावत्कथिको च तत्र अन्यतर उपाध्यायादेः कार्यते, अथैकोपि तस्य नेच्छति ततः आगंतुको विमुच्यते, अथ द्वावपि सलब्धिकावित्वरौ च तत आगंतुक उपाध्यायादीनां वैयावृत्यं कार्यते, सूत्रालापकश्च उपाध्यायादिवैयावृत्यफलप्रदर्शकस्ततः प्रोत्साहनार्थ पठनीयः। __उवज्झायवेयावच्चं, करेमाणे समणे निग्गंथे महानिजरे महापज्जवसाणे होइ इत्यादि ।
अथ नेच्छति तर्हि तस्मिनन्यस्योपाध्यायादेवैयावृत्त्यमानिच्छति वा शब्दो भिन्नक्रमत्वात् वारएणवेत्येवं योजनीयः द्वावपि वारकेण कार्येते, कियत्कालमेकः कियत्कालमपर इति यदि वास्तव्यो वैयावृत्त्यकरोनुमन्यते अथ नानुमन्यते, तत आगंतुक
For Private and Personal Use Only