________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
द्वितीयो
विभाग।
श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। ।। ३३ ।।
| सारयतः प्रायश्चित्तमतो नियमात्स आचार्येण सारयितव्यस्तथा च एतदेवाह । सारेयव्वो नियमा उवसंपन्नोसि जं निमित्तं तःतं कुणसु तुम भंते अकरेमाणे विवेगो उभा॥१०५॥
स उपसंपनो नियमात्सारयितव्यः कथमित्याह । अहो भदंत ज्ञानाद्यभ्यासकारितया परमकन्याणयोगिन् इह शिष्यस्याप्याचार्येण प्रोत्साहनार्थ तथाविधयोग्यतासंभवमधिकृत्यैवंविधमप्यामंत्रणं कर्त्तव्यमिति ज्ञापनार्थ, अन्यथा भदंतेति गुर्वामंत्रणे रूढत्वात्तत्रैव न्यायं न शिष्ये इति यनिमित्तमुपसंपनस्त्वं तत् कुरु एवमेकद्वित्रिवारं सारितोपि य दि न करोति वर्तनादिकं, ततस्तस्मिन्नकुर्वति विवेक एव परित्यागः कर्त्तव्यः तुरेवकारार्थः; यदुक्तमणापुच्छाइति तं व्याख्यानयति ।। अणणुगणाए देंत पडिच्छंतभंगचउरोउ; भंगतियंमिवि मासो, दुहतोणुगणाए सुद्धोउभा॥१०६॥ ___अननुज्ञातो मकारोऽलाक्षणिकः । अननुज्ञाते ददाति इतरस्तु प्रतीच्छतीत्येवं ददानप्रतीच्छता चत्वारो भंगाः सूत्रभंगत्रिकेपि आयेषु वर्त्तनादिषु प्रत्येकं प्रायश्चित्तं मासो लघुमासः, अर्थे गुरुमासस्तदुभयस्मिन् तदुभयं प्रायश्चितमिति व्याख्यानात् दुहतोणुएणाए इति उभयतो ददानतया प्रतीच्छकतया वानुज्ञाते भंगश्चतुर्थः शुद्ध एव तुरेवकारार्थः एषोऽक्षरार्थः । भावार्थस्तु प्रागेवोपदर्शितः, एष प्रायश्चित्तविधिः ज्ञानार्थ उपसंपयुक्त एवं दर्शनार्थमप्युपसंपदि द्रष्टव्यस्तथा चाह । एमेव दंसणे वी वत्तणमादीपयाउ जहनाणे; वेयावच्चकरो पुण इत्तरितो श्रावकहितोय ॥भा०॥१०७॥
यथा ज्ञाने वर्तनादिपदान्यधिकृत्य प्रायश्चित्तविधिरुक्तः एवमेव अननेवै प्रकारेण दर्शनेपि वर्तनादीनि पदान्यधिकृत्य
1॥३३॥
For Private and Personal Use Only