________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदिशब्दात् उपाध्यायप्रवत्तिस्थविरगणवच्छेदानां शेषभिक्षूणां च प्रद्विष्टः स चानेकधा उपशम्यमानोपि नोपशांतस्ततस्तस्मिन् आचार्यादिप्रदुष्टे गृहिण्यनुपशांते तद्भयादागतः सन् प्रतिगृह्यते यदि पुनः स ब्रूयात् संयतो मे तत्र प्रत्यनीकोस्ति ततस्तस्मिन् संयतप्रत्यनीके न भवत्युपसंपत् न प्रतिसंगृह्यते इत्यर्थः । अथवा स भएयते गच्छ त्वं तं चमयित्वा समागच्छ एवमुक्तो यदि तत्र गत्वा तं न क्षमयति ततो न स प्रतिगृह्यते अथ तेन गत्वाऽसौ क्षामितः केवलं स एव न क्षमते, तर्हि स पश्चादागतः प्रतिग्राह्यः । अथ स वक्ति मया स तदानीमेवागच्छता चामितः । तदा तस्मिन्नुपशांते स नियमात् प्रतिगृह्य एव न भवति भजना निर्दोषत्वात् ।
सो पुण उवसंपज्जे, नागट्ठा दंसणे चरिते य । एएसि नाणत्तं वोच्छामि श्रहाणुपुव्वीए ॥ भा० ॥ १०१ ॥
स पुनरुक्तप्रकारेण संगृह्यमाण उपसंपद्यते ज्ञानार्थ ज्ञाननिमित्तं दर्शने दर्शननिमित्तं सप्तम्या निमित्ते विधानात् दर्शनप्रभावकशास्त्रनिमित्तमित्यर्थः चारित्रार्थं चारित्रनिमित्तं एतेषां ज्ञानाद्यर्थमुपसंपद्यमानानां नानात्वं भेदं यथोपन्यासं या अनुपूर्वी सा यथानुपूर्वी तया वच्यामि प्रतिज्ञातमेव निर्वाहयति । वत्तण। संधणा चैव गहणे सुत्तत्थ तदुभये; वेयावच्चे खमणे काले श्रावकहाए ॥ भा० ॥ १०२ ॥
ज्ञानार्थं दर्शनार्थं चोपसंपत् प्रत्येकं त्रिधा, तद्यथा सूत्रं चार्थश्च तदुभयं च सूत्रार्थतदुभयं तस्मिन् सूत्रेष्वेतदुभयस्मश्वेत्यर्थे निमित्तं सप्तमी चेयं ततोयं भावार्थः । ज्ञानार्थं दर्शनार्थं चोपसंपद्यमानः प्रत्येकं सूत्रार्थं वा उपसंपद्यते अर्थार्थं वा
For Private and Personal Use Only
*********O**O**@***O***OK**O**→