________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
पीठिका5
नंतरः ।
।। ३१ ।।
•O•**•*••{• →→**--*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चचितयित्वा स्वपचे परपचे च मत्सरिण एते इति प्रकाशयति ततो लोके मत्सरिप्रवादो विद्वेषकरं च तद्वचस्तेषां माभूदिति प्रागुक्तयतनया निवारण क्रियते, न च मायामृषादोषसंभवो यतः पराप्रीत्यनुत्पादकतया परिणामसुंदरतया चोभयोरपि गुणकारित्वमवेक्ष्य तथा वाग्यतना क्रियते, न विप्रतारणबुद्ध्येति । एतेषामेव प्रतीच्छने अपवादमाह ।
निगमसुद्धमुवाण, वारियं गेरहते समाउहं । श्रहिगरण पडिणि श्रणुबद्ध मेगागिजढं न
साएजा ॥ भा० ॥ ९९ ॥
निर्गमोऽशुद्धो यस्य स निर्गमाशुद्धस्तं उपायेन प्रागुक्तयतनालक्षणेन वारितं समावृत्तं संतं गृह्णाति, किमुक्तं भवति यदि स तथा प्रतिषिद्धः सन् ब्रूते, भगवन् मिथ्या मे दुःकृतं न पुनरेवं करिष्यामि किंतु यथा यूयं भविष्यथ, तथा करिष्यामि मुक्तो मया स पापस्वभावो दुर्गतिवर्द्धन इति, तत एवं तं समावृत्तं गृह्णाति, किं सर्वमपि नेत्याह अहिगरणेत्यादि योऽधिकरणं कृत्वा समागतस्तं यश्च तत्र मे प्रत्यनीकोस्तीत्युक्तवान् तं तथा अनुबद्धरोषं येन च पश्चादेकाकी प्राचार्यस्त्यक्तस्तं च न साएजा न सात्मयेत् न सात्मीकुर्यात् न स्वीकुर्यादिति भावः, केवलं प्रत्यनीके अपवादोस्ति तमेवाभिधित्सुराह ।
पडिणीयंमिउ भयणा, गिहिम्मि आयरियमादिदुट्ठमि; संजयपडिणीए पुण, न होंति उवसामिए भयणा ॥ भा० ॥ १०० ॥
प्रत्यनीके भजना तामेवाह । गृहिणि गृहस्थे आचार्यादिदुष्टे किमुक्तं भवति, यदि कोपि नाम गृहस्थ आचार्यस्य
-
For Private and Personal Use Only
20/80C000*3*cle
द्वितीयो
विभागः ।
॥ ३१ ॥