________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यदेतन्निर्गमनाशुद्ध उपायेन प्रतिषेधनमुक्तं, तत्र कस्यचित् मतिः स्यात् । एवं प्रतिषेधतो माया भवति मृषावादश्च तत्र यत्परविप्रतारणचिंतनं, तन्माया, विद्यमानमपि श्रुतं नास्ति शंकितं वा तिष्ठति इत्यादि ब्रुवाणस्य मृषावादः, एवं तुं अमुना प्रकारेण पुनर्मायामृषां कुर्वतो भवेत् तस्यानार्जवमनृजुतामायातः,। कुटिल भावभावात् उक्तं पुनस्त्रैलोक्यदर्शिभिरिदं शोधिः ऋजुभूते सोही उज्जुयभूयस्सेत्यादि प्रदेशांतरे श्रवणात्। ततो नेदं मायामृषाभाषणमुचितमिति । अत्र सूरिः प्रत्युत्तरमाह ॥ | एस अगीते जयणा गीते विकरेंति जुज्जइ जंतु; विदेसकर इहरा मच्छरिवा दो फुडरुक्खे॥भा०॥९८॥ ____ एषा अनंतरोदिता वाग्यतना अगीते अगीतार्थे गीतेपि गीतार्थेपि निर्गमनाशुद्धे निवारणा क्रियते, केवलं स्फुटापरैर्यथा एवंभृतात् दोषात् त्वमत्रागतः एवंभूतदोषश्च न सुविहितैः प्रतीछयते इति, न चैवं भणितः सन् स रुष्यति गीतार्थत्वात्, गीतार्था हि सर्वामपि सामाचारीमवबुद्ध्यंते, अवबुद्ध्यमानाश्च कथमप्रीतिं विद्वेषं कुर्वतीति, तथाचाह । करेंति जुञ्जइ जंतु । यत् युज्यते युक्तिमापतति तत् गीतार्थाः कुर्वति नाप्रीत्यादिकमिति, इहरति इतरथा यद्यगीतार्थेपि स्फुटरूनिवारणा क्रियते केवलं स्फुटाक्षरैर्यथा एवंभूतदोषवान् त्वमत्रागतः ततः स्फुटरूक्षे भाषिते सति स्फुटं नाम पद्भूतदोषोच्चारणं, रूक्षं स्नेहोपदर्शनरहितं, यदिवा स्फुटमेव परस्य रुक्षतोत्पादनात्, रूक्षं स्फुटरुक्ष तस्मिन् भाषिते तत् भनपाणं वचस्तेषां विदेशतरं विद्वेषोत्पादकं भवति । अगीतार्थत्वात्, चिंतयंति च मत्सरभायेनैते सूत्रमर्थ वा न प्रयच्छति, तो मत्सरिण एते इति, एवं
For Private and Personal Use Only