________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवहारसूत्रस्य पीठिकानंतरः। ॥३२॥
तदुभयार्थ चेति पुनरेकैकं त्रिधा तद्यथा वर्तनेति अत्र सप्तमीलोपः प्राकृतत्वात् वर्तनायां वर्तनानिमित्तं एवमेव संधनायां | द्वितीयो | संधनानिमित्तं तत्र पूर्वगृहीतस्य सूत्रार्थस्य तदुभयस्य वा पुनः पुनरभ्यसनं वर्तना, पूर्वगृहीतविस्मृतस्य पुनः संस्थापनं मावि...।
संधना, तथा ग्रहणे तत्प्रथमतया अपूर्वसूत्रस्यार्थस्य तदुभयस्य वा ग्रहणनिमित्तं, एवं ज्ञाने दर्शने च प्रत्येकं भवति त्रिधा उपसंपत् चरणोपसंपदा पुनरुपसंपद्यमानो द्विधोपसंपद्यते, तद्यथा वैयावृत्तनिमितं क्षपणे चपणानिमित्तं ते च द्विधापि उपसंपद्यमानाः कालतो यावजीवं भवेयुः । च शब्दादित्वराश्च एनामेवगाथा व्याख्यानयति । दसणनाणे सुत्तत्थतदुभये वत्तणा य एकेके; उसंपया चरित्ते वेयावच्चे य खमणे य ॥भा०॥१०३॥
दर्शनविशोधिकानि यानि सूत्राणि शास्त्राणि वा तानि दर्शनं, शेषाणि सूत्राणि शास्त्राणि वा ज्ञानं, तत्र दर्शने ज्ञाने च प्रत्येकमुपसंपत् विधा, मूत्रनिमित्तमर्थनिमित्तं तदुभयनिमित्तं च, एकैकस्मिश्च सूत्रादौ प्रत्येकं वर्तनादि त्रिभेदं वर्तना संधना ग्रहणं च, किमुक्तं भवति सूत्रेपि वर्तनानिमित्तमुपसंपद्यते, संधनानिमित्तमुपसंपद्यते, अपूर्वग्रहणनिमित्तं वा उपसंपद्यते, एवमर्थेपि त्रितयमुभयेपि त्रितयमिति, दर्शनेपि नवविधोपसंपत् ज्ञानेपि नवविधेति, चारित्रे चारित्रविषया उपसंपत् वैयावृत्ते
क्षपणे च । |सुद्धपरिच्छण्णे लहुगा अकारते सारणा अणापुच्छा; तीसुवि मासोलहुत्तो वत्तणादीमुठाणेसु॥भा०॥१०॥
यत् गुरुसकाशे सूत्रं तत्सर्वमधीतं ततो गुरुभिरनुज्ञातो विधिना आपृच्छय वजिकादिष्वप्रतिबध्यमान पागतः । भाग- ॥३२॥
For Private and Personal Use Only