________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यव- हारसूत्रस्य पीठिका नंतरः।
द्वितीयो विभागः।
॥२६॥
स्थानेषु शंकितं जातं, न च शंकितं श्रुतमन्यस्मै दीयते, प्रवचने निषेधात् । तस्मादन्यत्र निःशंकितश्रुतान् गवेषयस्व यस्तु स्वच्छंदमतिः संघाटकोद्विग्नः संज्ञाभूमिमात्रमप्येकाकिना गंतुं न लभ्यमिति समागतस्तं प्रतीदं वक्तव्यं, अस्माकमाचार्यपरंपरात इयं सामाचारी संज्ञाभूमिमात्रमपि न गंतव्यमेतच्च तव दुष्करमतोन्यत्र गच्छ तावदिति, यः पुनरनुबद्धवैरत्वेनागतस्तं | प्रतीदं वक्तव्यं, मंडलीति अस्माकमीशी सामाचारी यदवश्यं मंडन्यां समुदेष्टव्यं, यद्यपि च न पठति न शृणोति वा तथापि सूत्रपौरुष्यां मंडल्यामुपवेष्टव्यमर्थपौरुष्यां मंडल्यामुपविश्यार्थः श्रोतव्यः, न कदाचनापि साधूनां स्वच्छंदत्वमेतच्च भवतोsप्रीतिकरं, तस्मादन्यत्र गम्यतां । यस्त्वलसत्वेनागतस्तं प्रतीदं वाच्यं, भिक्खबाहिराणयणं, भिक्षायाः बहिःप्रदेशादानयनं, किमुक्तं भवति अस्माकमत्र क्षेत्रे बहवो बालवृद्धाः सग्लानाः साधवः ते च भिक्षा न हिंडते, ततो यदि प्रतिदिवसं भिक्षा बहिः प्रदेशादानयसि । ततस्तिष्ठ, परमेतत् दुष्करं तव तस्मात् यत्र सुखेन तिष्ठसि, तत्र याहि, किमत्र क्लेशसहनेन यस्तु निर्द्धर्मा उग्रदंडा आचार्या इति विनिर्गतस्तं प्रतीदमुत्तरं, पच्छित्तत्ति । अस्माकमियं सामाचारी यदि दुःप्रमार्जनादिमात्रमपि करोति, तदा तत्कालमेव प्रायश्चित्तं यथोक्तं दीयते, न कालक्षेपेण नापि पक्षपातादिनास्तोकडासेन यस्तु विकृतिलंपटो न मह्यं विकृतिमनुजानातीति विनिर्गतस्तं प्रतीयं वाग्यतना । अविउसम्पत्ति अस्माकमप्ययं सामाचार्यागमः अव्युत्सर्गोऽनुत्कलनं विकृतेरिति व्याख्यानतो गम्यते, योगवाहिना अयोगवाहिना वा विकृतिर्न ग्राह्या इत्यर्थः, अत्राधिकरणप्रत्यनीकस्तब्धलब्धविषये यतना नोक्ता विचित्रत्वात्सूत्रभाष्यगतेस्तत्राधिकरणे यतना यथा कल्पामध्ययने तथा द्रष्टव्या, शेषविषया तु विनेयजनानुग्रहायाभिधीयते, तत्र यः प्रत्यनीकस्तत्र मेस्तीत्यागतः, मण्यते ममापि शिष्याः प्रतीच्छकाश्च ईषदपि प्रमादं न
॥२६ ।।
For Private and Personal Use Only