________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनर्नावर्त्तते तदा तस्मिन् अनावृत्ते इदं भण्यते, अन्यत्र गच्छ, मात्र स्था इति अथवा इदमुत्तरार्द्ध, आवस्सगमाइ आयरिए इति यदुक्तं । तस्य व्याख्यानं आवश्यकादिषु पदेषु गच्छवासिनः प्रमादिना दृष्ट्वा आचार्याय कथयेत् । कथिते च सति यदि स आचार्यः सम्यग् आवर्तते निजसाधून् सम्यग् शिक्षयते । प्रायश्चित्तं च तेभ्यः प्रयच्छति, ततस्तस्मिन्नावते तस्य तत्रोपसंपद्भवति, अथ कथितेनावर्तते, तूष्णीं करोति भणति वा किं तवैतैः स्वयं सम्यग्वर्तेथा इति, तदा अन्यत्र गच्छेदिति यदुक्तं प्राक् दाऊण पच्छित्तं वझंतंपी पडिच्छेजा इति तत् व्याख्यानयति ॥ निग्गमणे परिसुके आगमणे ऊसुद्धेदेति पच्छितं. निग्गमणे परिसुद्धे इनाए जयणाए वारितिभा०६२।।*
तृतीये भंगे निर्गमने परिशुद्ध प्रागुक्तदोषवर्जिते, आगमने अशुद्धे वजिकादिषु प्रतिबंधकरणात् द्वितीयपदे अल्पदोषतया प्रतीच्छाबुद्धौ सत्यां प्रायश्चित्तं प्रतिबंधमात्रनिष्पन्नं ददाति । दत्वा च प्रतीच्छंति, निर्गमने पुनः प्रथमभंगे द्वितीयभंगे वा अधिकरणमेव अधिकरणादिभिः एगे अपरिणए वा इत्यादिभिवा दोषैरपरिशुद्धे न प्रतीच्छनीयः किंतु वारणीयः तं वाऽनया वक्ष्यमाणया यतनया वारयति । तामेवाह || नत्थी संकियसंघाडमंडलीभिक्खवाहिराणयणं, पच्छित्तविउस्तम्गे निगमनुत्तस्स छण्णेणं ॥भा०६३॥
यः पंजरभग्नो ज्ञानदर्शनार्थमागतः । तं प्रतीयं वाक्ययतना यत् त्वं श्रुतमभिलपसि, तन्मम पार्श्वे नास्ति, अथ स ब्रुयात् , मया श्रुतं यथाऽमुको ग्रंथोऽमुकस्य पार्श्वे युप्माभिः श्रुत इति, तत इदं वक्तव्यं, श्रुतः स ग्रंथः केवलमिदानी बहुषु
For Private and Personal Use Only