SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्योपसंपद्यमानस्यागमनं द्वाभ्यां स्थानाभ्यां भवेत् । तद्यथा यतमानेभ्यः परिभवद्भ्यश्च, यतमाना नाम संविनाः परिभवंतः पार्श्वस्थादयः, उक्तंच ।। सो पुण जयमाणगाण वा साहूण मूलातो आगतो होज्जा; परिभवंताण मूलातो, अागतो होजापरिभवंता नाम पासत्था ॥१॥ इति तत्र यो यतमानसाधूनां मूलादागतः स ज्ञानदर्शनार्थ पंजरभग्नो वा समागतो भवेत् , यः पुनः परिभवतां मूलादागतः स चारित्रार्थमुद्यतुकामः समागतो भवेत् अनुद्यतुकामो वा ज्ञानदर्शनार्थमिति । अथवा यो यतमानेभ्यः समागतः स पंजरभन्नः, यः पुनः परिभवद्भ्यः उद्यंतुकामश्चारित्रार्थ समागतः, सोऽभिमुखः पंजराभिमुखः एतयोर्द्वयोरपि समागतयोरावश्यकादिभिः पदैराचार्येण परीक्षा कर्त्तव्या तदेवमागंतुकस्य यथा आवश्यकादिभिः पदैराचार्येण परीक्षा कर्तव्या तथा दार्शता, संप्रति तेनागंतुकेन यथाचार्यपरीक्षा कर्तव्या । तथोपदर्शयति । आवस्सगमाइ आयरिए आवश्यकादिभिः पदैरागंतकेनापि आचार्येण आचार्यस्य परीक्षा कत्तेव्याः सा चेवं । आवश्यकादिषु पूर्वभणितेषु द्वारेषु मध्ये क्वापि यदि गच्छवासिनः कानपि सीदतः पश्यति ततः आचार्येभ्यः कथयति । तेन कथिते सति यथाचार्यः सम्यक् प्रतिपद्य तान् प्रमादिनः प्रतिचोदयति । प्रायश्चित्तं प्रयच्छति, ततस्तत्रोपसंपत्तव्यं, अथ कथितेपि आचार्याः तूष्णीतिष्ठति भणंति वा, किं तव यद्यते न सम्यग्वर्त्तते, तर्हि अन्यत्र गच्छांतरे उपसंपत्तव्यं न तत्रेति अथ यतमानेभ्यः समागतः पंजरे भन्न इत्युक्तं तत्र पंजरेति किमुच्यते, । तत आह । For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy