________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
भी व्यवहारसूत्रस्य * पीठिकानंतरः।
समनोज्ञ उपसंपादनार्थमागतस्तं यद्याचायः प्रथमदिवसमिति सप्तम्यर्थे द्वितीया प्रथमदिवसेन विप्फालेइ, देशीवचनमे- तत् न पृच्छतीत्यर्थः । उक्तंच विप्फालणत्ति पुच्छणत्ति वा एगट्ठमिति, यथा कुत आगतः । कुत्र वा गमिष्यसि, किंनिमित्तं वा समागत इति । ततस्तस्य प्रथमदिवसे एवमविष्फालने परिहारस्थानं लहुयत्ति मासलघु द्वितीयेपि दिवसे यदि न पृच्छति ततो गुरुत्ति मासगुरुः, तइएत्ति तृतीयदिवसेप्यपृच्छने ल हुया इति चत्वारो लघुमासाः, । चतुर्थेपि दिवसे यदि न पृच्छति, । ततः तिएहं तु अतिक्कमे गुरुगा इति वचनाच्चतुर्गुरु, पंचमादिष्वपि दिवसेष्वपृच्छने तदेव चतुर्गुरु, तिरहं तु अतिक्कमे गुरुगा इति निरवधितया वचनप्रवृत्तेः तेच्चिय तस्साकहणे इति, ते एव प्रायश्चित्तविशेषाः क्रमेण तस्याकथने, तद्यथा स पृष्टः सन् यदि ब्रूते कथयिष्यामि नतु कथयति, ततस्तस्मिन् प्रथमदिवसे अकथने मासलघु द्वितीयदिवसेप्यकथयतो मासगुरु, तृतीयदिवसे चतुर्लघु, चतुर्थदिवसेप्यकथयतश्चत्वारो गुरुमासाः, । ततः परं पंचमादिष्वपि दिवसेष्वकथने तदेव चतुर्गुरु, इदानीं उद्वातो तदिवसमिति व्याख्याया अवसरः । तदिवसे प्रथमदिवसे उद्वात इति कृत्वा न पृच्छति ततः स आचार्यः प्रथमदिवसे अविष्फाले अपच्छने लहुयत्ति लघु न दोषगुरु, शुद्ध इत्यर्थः । कारणवशेनापृच्छनात् द्वितीयदिवसे न पृच्छति मासगुरु, तृतीयदिवसेप्यपृच्छने चतुर्लघु, चतुर्थदिवसेप्यपृच्छने चतुर्गुरु, एवं तेनोपसंपद्यमानेन पृष्टेनापृष्टेन वा यद्ख्यातं भवति, यथाहममुकेन कारणेन समागत इति ततः स आगतश्चिंतनीयः सुद्धमसुद्धो वत्ति शुद्धोऽशुद्धो वा अत्र चत्वारो भंगास्तद्यथा निर्गमनमप्यशुद्धं आगमनमप्यशुद्धं, । १। निर्गमनमशुद्धमागमनं शुद्धं २, निर्गमनं शुद्धमागमनमशुद्धं ३, निर्गमनमपि शुद्धमागमनमपि शुद्धं ४, अत्र प्रथमभंगे निर्गमनस्य इमेहिं तुत्ति एभिर्वक्ष्यमाणैारैचिंतितान्येव द्वाराणि दर्शयति ।।
|॥ २१॥
For Private and Personal Use Only