________________
Shri Mahavir Jain Aradhana Kendra
*loke
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समणुन्नदुगनिमित्तं, उवसंपजे ते य होइ एमेव ॥ श्रमणो नवरं, विभागतो कारणे भइयं ॥ भा० ६४॥
उपसंपद्यमानो द्विधा, तद्यथा समनोज्ञोऽसमनोज्ञश्च तत्र समनोज्ञस्य समीपे समनोज्ञ उपसंपद्यमानो द्विकनिमित्तं उपसंपद्यते, तद्यथा ज्ञानार्थं दर्शनार्थं च न चारित्रार्थं येन चरणं प्रति सदृश एव तस्मिन् समनोज्ञे द्विकनिमित्तमुपसंपद्यमाने एवमेव, विहारालोचनंव भवत्यालोचना इयमत्र भावना, समनोज्ञो द्विकनिमित्तमुपसंपद्यमान आलोचनां विहारालो चनामिव श्रघेन दद्दाति, पदविभागेन च पदविभागालोचना एक दिवसेन वा भवत्यनेकदिवसैर्वा एवं समनोज्ञस्य उपसंपदालोचना, अमर इत्यादि अन्यो नाम भिन्नसांभोगिकः अमनोज्ञाऽसंविग्नः । सोन्योऽसमनोज्ञश्च उपसंपद्यमानस्त्रिकनिमित्तमुपसंपद्यते । तद्यथा ज्ञानार्थं दर्शनार्थं चारित्रार्थं वा तस्मिंश्च तथोपसंपद्यमाने पूर्ववदालोचनाविधिः । अत्रापीयं भावना अन्योऽसमनोज्ञो वा आलोचनां ददाति श्रघेन पदविभागेन ददान एकदिवसेन वा ददाति, अनेकदिवसैर्वा नवरमिति विशेष एष पुनरत्र विशेषः तस्यान्यस्यामनोज्ञस्य वा आलोचना उत्सर्गतो विभागतः सर्वं वाक्यं सावधारणमिति विभागेन तत एव कारणे पुनर्भजितं विकल्पितं वेलाप्राप्तौ विभागालोचना भवति संभ्रमसार्थादिषु पुनः कारणेषु तदप्राप्तावोघेनालोचनेति भावः एषा भजना अपराधालोचनायामपि द्रष्टव्या, तथाहि अपराधालोचनायामप्युत्सर्गत एव विभागेन दातव्या । अपवादकारणे पुनः श्रमसार्थादिलक्षणे प्रोघेनापीति, संप्रति उद्दातो तद्दिवसमिति व्याख्यातुकाम ह ||
पढनदिणमविष्फाले, लहुओ बितिए गुरु तइए लहुया । तेच्चिय तस्साकहणे, सुद्धमसुद्ध इमेहिं तु ॥ भा० ६५ ॥
For Private and Personal Use Only
•*•**•*•**********<-->**<