SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहिगरणविगतिजोगे, पडिणीए थद्धलुद्धनिद्धम्मे। अलसअणुबद्धवरे, सच्छंदमती पयहीयव्यो ॥ भा० ६६ ॥ यदि स उपसंपद्यमानोऽधिकरणदोषतः स्वस्थानानिर्गतः, विगतित्ति विकृतिलापट्यात् जोगत्ति योगोद्वहनभीरुतया, पडिणीएत्ति प्रत्यनीकोत्रम साधुरिति बुध्ध्या, तथा थद्धलुद्धेत्यादि स्तब्ध इति वा लुब्ध इति वा, निर्द्धर्म इति वा अलस || इति वा अनुबद्धवैर इति वा स्वच्छंदमतिरिति वा विनिर्गतस्ततस्तस्य निर्गमनमशुद्धमिति कृत्वा पयहीयव्योत्ति परिहर्त्तव्यः । तदपरिहरणे प्रायश्चित्तं, तत्राधिकरणविषये प्रायश्चित्तमाह ॥ गिहिसंजयअहिगरणे,लघुगुरु तस्स अप्पणोच्छेदे। विगइ न दे भुत्तुद्धरियं च गहिएविभा०६७॥ गृहिभिः संयतैश्च सहाधिकरणे विनिर्गतं यद्याचार्यः स्वीकरोति, ततो यथाक्रमं प्रायश्चित्तं लघुगुरुकं । इयमत्र भावना यदि गृहस्थेन सहाधिकरणं कृत्वा विनिर्गतस्तं यद्याचार्यः संगृहाति, ततस्तस्याचार्यस्य परिहारस्थानं चत्वारो लघुमासाः, अथ संयतेन समधिकरणं कृत्वा समागतं संगृहाति ततश्चत्वारो गुरुकाः, तस्य पुनरागंतुकस्य पणत्ति रात्रिंदिवसपंचकप्रमाणः पर्यायस्य च्छेदः इहाधिकरणादिदोषतो विनिर्गतास्ते प्रश्ने प्रश्ने वा सति तदुक्तिवशादवसीयंते, तत्र विकृतिदोषविनिर्गतस्य पृष्टस्यापृष्टस्य वा य उक्तिविशेषस्तं दर्शयति विगइमित्यादि । स आचार्यो विकृतं घृतादिकं ग्रहणाय न ददाति, तथा योग* वाहिभिर्योगोत्तीर्णैः कायोत्सर्गकरणतो गृहीतेपि परिपूर्णे विकृतिजातेऽन्यैर्भुक्ते या उद्धरिता विकृतिस्तामपि नानुजानाति किंच॥ त्वा विनि गिजाति तत प्रश्ने वा साविक For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy