SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H1 श्री व्यवहारसूत्रस्य पीठिकानंतरः। द्वितीयो विभाग एवं च चिंतयित्वा तस्यातीचारस्य विशोधनार्थमश्व इवयथा सारथिमनुवर्तयन् कचिदप्यप्रतिबद्धोअश्वो याति तथा संयमकेवल मनु वर्तयन् गुरुसकाशं गुरोःसमीपं प्रतिप्रस्थितो जिकायां गोकुले ग्रामे प्रचुरोत्कृष्टभिक्षालाभे संखड्यां वाकस्यांचिदप्रतिबद्धः सन् | गच्छेत् गुरुसमीपं च प्राप्तः सन् आलोचनां दद्यात् सा चाऽलोचना त्रिविधा तद्यथा विहारालोचना उपसंपदालोचना अपराधा| लोचना च तथा चाह पत्ते आलोयणतिविहा प्राप्ते तस्मिन् तेनालोचना दातव्या सा च त्रिविधा यथोक्तरूपानवरमत्राधिकारोऽ- : पराधालोचनया सूत्रे तस्या एव साक्षादुपादानात् तत्र यदुक्तमश्व इवेति, तख्यानार्थमाह ॥ सिग्घु जु गई पासो अणुयत्तइ सारहिं न अत्ताणं. इय संजमणुयत्त इवयादि अवंकितो साहाभा, ४६॥ कशोत्पाटादिना सारथ्यभिप्रायमुपलक्ष्य यथाऽश्वः शीघ्रं गतिऋजुगतिश्च सन् सारथिमनुवर्तयति न आत्मानं मंदगत्या वा इत्येवममुना प्रकारेण बजि कांदिषु अवक्रितो बजिकादिष्वगमनेन वक्रमगच्छन् साधु संयमं वाक् यस्य व्यवच्छेदफलत्वात् संयममेवकेवलमनुवर्त्तयति नतु बजिकादिषु गमनेनात्मानं आलोचना दातव्येत्युक्तं । तत्रालोचनादानं तावदस्तु आलोचना परिणामो पि महाफल इत्येतदर्शयति ॥ आलोयणापरिणतो संमं संपत्थितो गुरुसगासं, जेइ अंतराउकालं करेइ अाराहतो सोउ ।भा० ५०॥ सम्यक्आलोचनापरिणतः आलोचनापरिणामपरिणतः सन् गुरुसकाशं गुरुसमीपं संप्रस्थितो यद्यतरा कालं करोति तथापि | स आराधक एव स्वशक्त्यनिगृहनेन प्रवृत्तेस्तु शब्दएवकारार्थो भिन्नक्रमश्च स च यथा स्थानं योजितः आलोचना त्रिविधेत्युक्तं | ॥ १६ ॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy