________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंतयितव्यं नापि नैव ज्ञायते का बेला कस्यां वेलायां व्याघातो जीवस्य जीवप्राणधारणे, जीवनं जीवः तस्य जीवितस्येत्यर्थः व्याघातो भवेत् अनालोचिते च यदि म्रियते, ततो दीर्घसंसारी भवति तत एतत् भएयते ॥ तं न खमं खुपमातो मुहत्तमवि भासिउं ससल्लेण। पायरियपादमूले गंतृण समुद्धरे सल्लंगभा॥४६॥
यस्मादचितितः पतति, जीवितस्य व्याघातोऽनालोचिते च मृतस्य दीर्घसंसारिता, तस्मात् पमातो इति अत्र दकारस्य लोपः प्राकृतत्वात् प्रमादतः प्रमादवशेन सशल्येनातीचारशल्ययुक्तेन मुहूर्त्तमप्यासितुं नक्षम, खु निश्चितं किंत्वाचार्यपादमले गत्वा | आलोचनाविधानेन प्रायश्चित्त प्रतिपच्या शन्यमतीचाररूपं समुद्धरेत् विशोधयेत् यस्मात् ।। ___नहु सुज्झइ ससल्लो जह भणियं सासणे जिणवराणं; उद्धरियसव्वसल्लो सुज्झइ जीवो | * धुयकिलेसो ॥ भा० ॥ ४७ ॥
यथा भणितं जिनवराणां भगवतामहतां शासने तथा ज्ञायते जिनवचनतो ज्ञायते इत्यर्थः नहु नैव सशल्यो अतीचार शल्यपरिकलितस्तपश्चरणादिकं प्रभूतमपि कुर्वन् शुध्यति अविसुद्धस्स न वड्डइ गुणसेढीतत्तियाठाइ इति वचनात् किंतूम्धृतः सर्वशल्य संस्तपश्चरणादि भावतोधुतक्लेशोऽपगमित समस्त कर्मजालो जीवः शुद्ध्यति मुक्तात्मा भवतीति ॥ अहगं च सावराहो आसोवित्रपच्छितो गुरुसगासं; वइयगगामे संखडि पत्ते पालोयणा तिविहा॥भा०॥४॥
इदमपि च चिंतनीयं, अहकं च अहमपि च सापराधस्तस्मान् मया गुरुपादमूले गत्वा प्रायश्चित्ताभ्युपगमेन शन्यमुद्धरणीयं
For Private and Personal Use Only