________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छिन्नाभावसंधनामिश्रः क्षायोपशमिको भावः तस्मात् मिश्रात् क्षायोपशमिकात् भावात् यदा औदयिक भावं संक्रामति तदा तस्य औदयिकं गतस्य छिन्नं भावसंधानं भावांतरे संक्रांतत्वात् , तथा तस्मादौदयिक भावात् यदापुनर्मिश्रगमनं भवति मिश्र | भावं संक्रामति तदापि छिन्नं भावसंधान एवं शेषेष्वपि भावेषु यथा यथायोगं भावनीयं, अथवा द्विविधा छिन्नभावसंधना प्रशस्ताऽ प्रशस्ता च तत्र यदा प्रशस्ते चरणादिभाव स्थितः सन् तथाविधकर्मोदयवशतोऽप्रशस्तं चरणभावं संक्रामति, तदा अप्रशस्ता छिन्नाभावसंधना यदा पुनरप्रशस्तादचरणभावात् प्रशस्तं चरणभावं संक्रामति तदा प्रशस्ता छिन्नाभावसंधना अत्र प्रकृतमधिकारः च्छिन्नेन भावसंधानेन तत्राप्यप्रशस्तेन तथाहि प्रायश्चित्तस्थानं तदा प्रतिसेवते यदा प्रशस्ताद्भावाद प्रशस्त भावं संक्रांतो भवति तदेवं स्थाननिरूपणा कृता, संप्रति यदुक्तं सूत्रे पडिसेबित्ता इति तत्र प्रतिसेवना व्याख्यानार्थमाह ।। मूलुत्तरपडिसेश मूले पंचविहे उत्तरे दसहा । एक्केका वि य दुविहा दप्पे कप्पे नायव्वा ॥ भा॥३८॥
प्रतिसेवनानाम प्रतिसेवना सा च द्विधा मूलोत्तरत्ति, पदैकदेशे पदसमुदायोपचारात् मूलगुणातिचार प्रतिसेवना, उत्तरगुणातिचारप्रतिसेवना च तत्र मूले पंचविहत्ति मूले मूलगुणातिचारप्रतिसेवना पंचविधा पंचप्रकारा, मूलगुणातिचाराणां प्राणातिपातादीनां पंचविधत्वादुत्तरे त्ति उत्तरगुणातिचारप्रतिसेवना दशधा दशप्रकारा उत्तरगुणानां दशविधतया तदतिचाराणामपि दशविधत्वात् ते च दशविधा उत्तरगुणा दशविधं प्रत्याख्यानं तद्यथा । अनागतमतिकांत कोटीसहितं नियंत्रितं, साकारमनाकारं, परिमाणकृतं निरवशेष सांकेतिकमद्वा प्रत्याख्यानं च । अथवा इमे दशविधा उत्तरगुणाः ।।
For Private and Personal Use Only