________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandie
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
द्वितीयो विभागः।
तद्यथा पिंडविशोधिरेक उत्तरगुणः पंचसमितयः पंचउत्तरगुणाः एवं पद तपोबाह्यं षट्प्रभेदं सप्तम उत्तरगुणः अभ्यंतर षद्प्रभेदमष्टमः, भिक्षुप्रतिमा द्वादश नवमः अभिग्रहा द्रव्यक्षेत्रकालभावभेदभिन्ना दशमः एतेषु दशविधेषूत्तरगुणेषुयातिचारप्रतिसेवना सापि दशविधेति एकेकावियदुविहा इत्यादि एकैका मूलगुणातिचारप्रतिसेवना उत्तरगुणातिचारप्रतिसेवना च प्रत्येक सप्रभेदाद्विविधा द्विप्रकारा ज्ञातव्या तद्यथा दर्षे कल्पे च दपिका कल्पिका चेत्यर्थः । तत्र या कारणमंतरेणप्रतिसेवना क्रियते सा दपिका या पुनः कारणे सा कल्पिका । अत्र शिष्यः पृच्छति ॥
किहभिक्खू जयमाणो आवजइ मासियं तु परिहारं। कंटगपहेवछलणा भिक्खूवि तहा विहर- | माणो ॥ भा० ॥ ३९ ॥
कथं केन प्रकारेण भिक्षुर्यतमानः सूत्रोक्तनीत्या प्रयत्नपरो मासिकं परिहारं प्रायश्चित्तस्थानमापद्यते, नैवापत्तिसंभवो, यतनया सर्वत्र प्रवृत्तेरितिभावः, आचार्य आह कंटगेत्यादि कंटकाकीर्णः पंथाः कंटकपथस्तस्मिन्निव यतनयापि वर्तमानस्यच्छलना भवति, ततो भिक्षुरपि तथा विहरन् यतमानो मासिकमापद्यते प्रायश्चित्तस्थानमिति, अत्रैव दृष्टांतरमाह ।। तिक्वमि उदगवेगे, विसमं विवजलंमि वच्चंतो। कुणमाणो विपयत्तं अवसोजह पावए पडणं भा०॥४॥ ___तीक्ष्णे अतिप्रवले शीधे च उदकवेगे उदकरये यदि वा विषमे अतिदुर्गमे विजले सकर्दमस्थाने व्रजन् पुरुषः कुर्वन्नपि प्रयत्नमवशो यथा प्रामोति पतनं
॥१४॥
For Private and Personal Use Only