________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
द्वितीयो विभागः
वान दिनराशियुगेभवतीति कथमवसीयतेइतिचेत् ? उच्यते, इहसूर्यस्यदक्षिणमुत्तरंवाअयनंत्र्यशीत्यधिकदिनशतात्मकंयुगेचपंचदक्षिणायनानिपंचोत्तरायनानि सर्व संख्यया दशायनानि ततस्त्रयशीत्यधिकं दिन शतंदशकेन गुण्यते इत्यागतो यथोक्तो दिनराशिरेवं प्रमाणं दिनराशि स्थापयित्वा किमित्याह । ताहेहराहिभागं, रिक्खाईयाणदिणकरंताणं, सत्तट्ठी बावट्ठी एगट्ठी सही भागेहिं ॥ भा० ॥१७॥
ततो दिनराशि स्थापनानंतरमृक्षार्दानां ऋक्षमासप्रभृतीनां दिनकरांतानां सूर्यमास पर्यंतानां नक्षत्र चंद्रादित्यमासाना| मित्यर्थः दिनमानानयनाय यथाक्रमं सप्तपष्टि द्वाषष्टि एकषष्टि षष्टिभागैः सप्तषष्ट्यादिभिर्भागहारित्यर्थः भागहराहित्ति हर ततोयथोक्तं नक्षत्रादिमासगतदिनपरिणामागच्छतितच्चोत्तरत्रदर्शयिष्यते, सांप्रतमभिवर्द्धित मासगतदिन परिमाणानयनायवेदंकरणमिति करणांतरमाह ॥ अभिवड्डियकरणंपुणठावियरासिइमंतुकायव्वं ऊणालीससयाइं पणठाइंअणूणाई ॥ भा० ॥ १८ ॥ |
श्रीभवद्धितकरणमभिवद्भुितमासगतदिनपरिमाणानयनायकरणं पुनरिदंवक्ष्यमाणं कर्तव्यंप्रयोक्तव्यमितियोगः तदेवाहस्थापयित्वाराशिंकिंप्रमाणमित्यताह ( ३६६५) एकोनचत्वारिंशत् शतानिपंचषष्ट्यधिकान्यन्यूनानिपरिपूर्णानिकेषांराशिsरयमितिचेत् । उच्यते, अभिवर्द्धित मासगतदिन चतुर्विशत्युत्तर शतभागानां तथाह्यभिवर्द्धितमासस्य दिनपरिणाममेकत्रिंशदहोरात्राएकविंशत्युत्तरंशतंभागानां अहोरात्राश्च प्रत्येकं एकत्रिंशत् चतुर्विंशत्युत्तरशतेनगुण्यते जातान्यष्टात्रिंशत्शतानि चतु
॥
७
॥
For Private and Personal Use Only