________________
Shri Mahavir Jain Aradhana Kendra
*O*-*O****→→*********→
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुप्रावचनिको लोकोत्तरिकच तत्र लौकिको यथा आनंदपुरे खड्गादावुद्दीर्णे ( उत्कीर्णे ) रूपकाणामशीति सहस्त्र दंडो मारितेपि तावानेव, प्रहारे तु पतिते यदि कथमपि न मृतस्तर्हि रूपकपंचकं दंडः, उत्कुष्टे तु कलहे प्रवृत्ते अर्द्धत्रयोदशरूपको दंड; कुप्राचनिको यथा यत्कर्म्म यो न करोति, न ततः कर्म्मणस्तस्य किंचिदिति; लोकोत्तरिको यथा एते पांडुरपटप्रावरणा जिना - नामनाज्ञया स्वच्छंद व्यवहरतः परस्परमशनपानादिप्रदानरूपव्यवहारं कुर्वति, भावव्यवहारो द्विधा श्रगमतो नोआगमतश्र, गमतो व्यवहारपदार्थज्ञाता तत्र चोपयुक्तः उपयोगो भावनिक्षेप इति वचनात् नोआगमतः पंचविधो व्यवहारस्तथाचाह; नागमतो पण गंभावे इति भावे विचार्यमाणेनोआगमतो व्यवहारो व्यवहारपंचकं श्रागमः श्रुतम् श्राज्ञा धारणाजीतमिति नोशब्दो देशवचनात्तस्य पंचविधस्यापि नोश्रागमतो भावव्यवहारस्य सामान्येन एकार्थिकान्यमूनिता न्येवाह || ६ || सत्तेत्थे जीए कप्पे मग्गे तहेव नाएय; तत्तो य इच्छियव्वे श्रयरिए चैव ववहारो ॥ भा ७ ॥ तत्तदर्थसूचनात् सूत्रं, ऊणादिकी शब्दव्युत्पत्तिः, तच्च पूर्वाणि च्छेदसूत्राणि वा, तथा अर्ध्यते मोक्षमभिलषद्भिः इत्यर्थः सूत्रस्याभिधेयं, तथाजीतं नाम प्रभूतानेकगीतार्थकृतमर्यादा; तत् प्रतिपादको ग्रंथोप्युपचारात् जीतं, तथा कल्पते समर्था भवंति संयमाध्वनि प्रवर्त्तमाना श्रनेनेति कल्पः मृजूष शुद्धौ मृजंति शुद्धि भवत्यनेनातिचारकन्मपप्रक्षालनादिति मार्गः उभयत्र व्यंजनात् घञिति घञ्प्रत्ययः तथा इण् गतौ, निपूर्वः नितरामीयते गम्यते मोक्षोऽनेनेति न्यायः तथा सर्वैरपि मुमुक्षुभि रीष्यते प्राप्तुमिष्यते इप्सितव्यः आचर्यतेस्म बृहत्पुरुषै रप्याचरितं व्यवहार इति पूर्ववत् उक्तान्येकार्थिकानि संप्रत्यत्रैवाक्षेपपरिहाराभिधित्सुराह ॥ ७ ॥
For Private and Personal Use Only
1-***OK+-***+K+++OK++*OK-OK++*OK++COK••