________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FAK
पीठिका
श्री व्यवहारसूत्रस्य
॥५॥
यस्मादेषस्थेयपुरुषो विवादनिर्णयाय एकस्माद्धरति, अन्यस्मै प्रयच्छति, तस्मात्तद्व्यापारो वपनहरणात्मकत्वात् व्यवहार इति एतावता समुदायार्थकथनंकृतं, स च व्यवहारो विधिव्यवहारो अविधि व्यवहारश्च तत्राप्यविधिव्यवहारपरित्यागेन विधि व्यवहार एव कर्तव्य इति प्रतिपादनार्थमाह अहिगारो एत्थउविहीए अत्र एतस्मिन् शास्त्रे अधिकारः प्रयोजनं व्यवहारेण विधिनैव विधिपूर्वकेणैव तु शन्द एवकारार्थे भिन्नक्रमच, ना विधिना, अविधिर्मोक्ष प्रतिपंथित्वात् तदेवमुक्तं, व्यवहारशन्दस्य निर्वचनं तच्च क्रियामात्रमपेक्ष्योक्तमधिकृत ग्रंथयोजनायां तु करण व्युत्पत्तिराश्रयणीया, विधिना उप्यते हियते च येन स व्यवहार इति, संप्रति व्यवहारस्य नामादिभेददर्शनार्थमाह ॥ ६॥
ववहारंमि चउक्कं दब्वे पत्ताइलोइयादी वा, नो श्रागमतो पणगं, भावे एगठिया तस्स ॥भा ॥ ____ व्यवहारे व्यवहारविषये चतुष्कं, किमुक्तं भवति चतुर्द्धा व्यवहार स्तद्यथा-नामव्यवहारः स्थापनाव्यवहारो द्रव्यव्यवहारो भावव्यवहारश्च तत्र नामस्थापने सुप्रतीते, द्रव्यव्यवहारो द्विधा, आगमतो नोआगमत श्च, आगमतो व्यवहारपदज्ञाता तत्र चानुपयुक्तो, नोआगमत विधा-ज्ञशरीरभव्यशरीर तद्व्यतिरिक्तभेदात् तत्र ज्ञशरीरभव्यशरीरव्यवहारौ गतो, ज्ञशरीरभव्यशरीरयोरन्यत्रानेकशोभिहितत्वात् तद्व्यतिरिक्तमाह दव्वेपत्ताइ लोइयादीवा द्रव्ये द्रव्यविषये व्यवहारो नोबागमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तः पत्रादिराधाराधेययोरभेदविवक्षणादयं निर्देश स्ततोयमर्थः ज्ञशरीरभव्यशरीर व्यतिरिक्तो द्रव्यव्यवहारः खल्वेष एव ग्रंथः पुस्तक पत्रलिखित आदि शब्दात् काष्टसंपुटफलकपट्टिकादिपरिग्रहः, तत्राप्ये तद्ग्रंथस्य लेखनसंभवात् , लौकिकादि वेति, यदि वा ज्ञशरीरभव्यशरीरयोर्व्यतिरिक्तो द्रव्यव्यवहारस्त्रिविध स्तद्यथा, लौकिकः
॥
५
॥
For Private and Personal Use Only