________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टुव बीजतंतुसंताने उप्यते इति वपनं, इति शब्दः शब्दस्वरुपपरिसमाप्तिद्योतकः एवमुत्तरेपि, रोपणमिति रुह जन्मनि रोहति कश्चित्तमन्यः प्रयुक्ते प्रयोक्तव्यापारे णिच् रुहेः पो वाइति हकारस्य पकारः रोप्यते इति रोपणं भावे अन वा समुच्चये पकिरणेति कृ विक्षेपे प्रपूर्वः प्रशब्दोऽत्रदाने प्रदातुं कीर्यते विक्षिप्यते इति प्रकिरणं, परिसाडणा इति, शद् रुजायां परिपूर्व परिशटति परिभ्रश्यति तमन्यः प्रयुंक्ते पूर्ववत् णिच् परिशाटयते इति परिशाटनानि वेत्यादि अनट् प्रत्ययः प्राप् चसमुच्चये, एगठमिति एतत् शब्दचतुष्टयमेकार्थ एकार्थप्रवृत्ताः परस्परमेते पर्याया इति भावस्तेन यदुक्तं भवति रोपणमिति प्रकरणमिति परिशाटनेति वा तदुक्तं भवति वपनमिति एतावता वपनशब्दस्य प्रदानलक्षणोऽर्थः समर्थितः; हात्ति चेत्यादिग्रहणं हार इहहरणं हियते इति वा एकार्थ त्रयोप्येते शब्दा एकाथिका इत्यर्थः तदेव वापशब्दस्य हारशब्दस्य च प्रत्येकमर्थोऽभिहितः, संप्रति तयोरेव समुदितयोरथं जिन्नापयिपुरिदमाह ॥४॥ अत्थी पञ्चथीणं हाउं एकस्सववइविइयस्स; एएण उ ववहारो अहिगारो एत्थ उ विहीए ॥भा ५॥
अर्थी याचको यः परस्मात्ममेदं लभ्यमिति याचते, प्रत्यथीं अर्थिनः प्रतिकुलः, किमुक्तं भवति, यः परस्य गृहीत्वा न | किमपि तस्मै प्रयच्छति तयोरर्थिप्रत्यर्थिनो विवदमानयोर्व्यवहारार्थस्थेयपुरुषमुपस्थितयोः स व्यवहारपरिच्छेदकुशलो व्यवहारविधापनसमर्थश्च स्थेयो यस्मात् हाउं एकस्सत्ति सूत्रेषष्टी पंचम्यर्थे प्राकृत्वात् प्राकृते हि विभक्तिव्यत्ययोऽपि भवति, यदाह पाणिनिः स्वप्राकृतलक्षणे व्यत्ययोध्यासामिति, यस्य यन्नाभवति, तस्मात् तत् हृत्वा आदाय यस्या भवति तस्मै द्वितीयाय वपति प्रयच्छति, एएणउबबहारो इति एतेन अनंतरोदितेन कारणेन सं स्यव्यापारो व्यवहारः, किमुक्तं भवति
For Private and Personal Use Only