________________
Shri Mahavir Jain Aradhana Kendra
@*-*-*@*••*O*→
--10+1++++
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वान् न भवेत् नैव भवतीति भावः । तीव्रदुष्टाध्यव्यवसायभावात् । न खलु जानानस्तविदुष्टाध्यवसायमंतरेण तथा प्रवर्त्तते इति तदेवं दृष्टांतमभिधायाधुना दाष्टतिकयोजनामाह ।
एमेव तु मिवि वराहपर्यमि वट्टिया दोवि, तत्थवि जहाणुरूवं दलंति दंडं दुवेराहंपि ॥ भा० १७७॥
एवमेव अनेनैव प्रकारेण अनेनैव दृष्टांतेनेति भावः द्वावपि जनौ आस्तामेक इत्यपि शब्दार्थः । तुल्येपि समानेप्यपराधपदे वर्त्तितौ तत्रापि तुल्येप्यपराधपदे द्वयोरपि तयोर्यथानुरूपं गीतार्थागीतार्थयतनासंहननविशेषानुरूपं दंडं दलयंति प्रयच्छन्ति, तस्मात् प्रायश्चित्तभेदतः प्रायश्चित्तदानभेदतश्चाचार्यादिकस्त्रिविधो भेदः कृतः, तदेवमाचार्यादित्रिविधभेदसमर्थनारूपतवतो गीतार्थागीतार्थादिभेदतः अभवत् प्रायश्चित्तनानात्वं चोपदर्शितमिदानीमत एव दृष्टांतादवस्थाभेदतो गीतार्थे एव केवले शोधिनानात्वमुपदर्शयति ।
सेव दितो तिविहे गीयंमि विसोहिनाणत्तं वत्थुसरिसो उ दंडो दिज्जइ लोएवि पुत्तं ॥ १७८ ॥ गीते गीतार्थे त्रिवि प्रकारे बालतरुण वृद्धलक्षणे यत् शोधिनानात्वं तद्विषये एप एवानंतरोदितस्त्ररूपो दृष्टांतस्तहि यथाकल्पयाकल्प्यविधिपरिज्ञानविक लोकल्पनीयमपि कल्पनीयमिति बुद्ध्या प्रतिसेवमानो न दोषवान् भवति । कोविदस्तु कल्पयाकल्पये जानानोऽकल्पनीयं प्रतिसेवमानो दोषवान् एवमिहापि तुल्ये प्रतिसेव्यमाने वस्तुनि तरुणे प्रभूतं प्रायश्चित्तं समर्थत्वात् । बालवृद्धयोः स्तोकमसमर्थत्वात् न चैतदन्याय्यं यतो लोकेपि वस्तुसदृशः पुरुषानुरूपो दंडो दीयते, तथाहि
For Private and Personal Use Only
*********************