________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ये गीता गीतार्था अधिगता इत्यर्थः, अकृतकरणाः ये च अगीता अगीतार्था अनधिगता इति भावः, अकयत्ति अकृतकरणाश्च, चशब्दात् अकृतकरणाश्च । अस्थिराश्च कृतकरणा अकृतकरणाश्च तेषां कदाचित् आपत्तिप्रायश्चित्तं दीयते, यत् यत् प्रायश्चित्तं आपनं तदेव दीयते इति, यावत् कदाचित् तथाविधायामसमर्थतायां यत्प्रायश्चित्तमापन्न, तस्याक्तिनमनंतरं दीयते, कदाचित्प्रभूतायामसमर्थतायां बह्वतरित बहुभिः प्रायश्चित्तैरनंतरितमक्तिनं दीयते इति यावत् अत्यंतासमर्थतायां झोसो वा सर्वस्य प्रायश्चित्तस्य परित्यागः आलोचनमात्रेणैवतस्यामवस्थायां तस्य शुद्धिभावात् ।, यथा कुतकरणस्योपाध्यायस्य मूलमापन्नस्य तथाविधयोग्यतायां मूलं दीयते, अकृतकरणस्य पुनरसमर्थ इति कृत्वा छेदस्तथाप्यसमर्थतायां षद्गुरु तत्राप्यशक्तौ पट्रलघु एवं तावत् नेयं यावन् निर्विकृतिकं तत्राप्यशक्तौ पौरुषी तत्राप्यसमर्थतायां नमस्कारसहितं तस्यापि गाढग्लानत्वभावतोऽसंभवे एवमेवालोचनामात्रतः शुद्धिरिति । तदेव कयकरणा इयरे वा इत्यादिगाथाद्वयसकलमपि भावितमधुना सावेक्खा आयरीयमादीति यदुक्तं तत्र परस्याक्षेपमाह ।। श्रायरियादी तिविहो सावेक्खाणंतु किं कतो भेदो, एएसिं पच्छित्तं दाणंचऽपणं अतो तिविहो ।भा०१७०॥
नवाचार्योपाध्याययोरपि भिक्षुत्वस्यावस्थितत्वात् तद्हणे तयोरपि ग्रहणमिति किं किमर्थ सापेक्षाणां त्रिविध आचार्या|| दिकः आचार्योपाध्यायभिक्षुलक्षणः कृतो भेदः १ एवमुक्ते सरिराह एएसिणामित्यादि । एतेषामाचार्यादीनां यत् भवति
प्रायश्चित्तं यश्च तस्य प्रायश्चित्तस्य समर्थासमर्थपुरुषाद्यपेक्ष्य दानं, तत् पृथक पृथक् अन्यत् अतः सापेक्षाणामाचार्यादिकस्त्रिविधो भेदः कृतः, एतदेव सविशेषमाह ।।
For Private and Personal Use Only