________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवडारसूत्रस्य
५८॥
कारणमकारणं वा जयणा अजयणा व नत्थि अगीयत्थे, एएण कारणेणं आयरियाई भवे तिविहा
इदं कारणं प्रतिसेवनाया इदमकारणं वा, तथा इयं यतना इयमयतना इत्येतनास्ति अगीतार्थे, गीतार्थस्य तु, अर्थात्गीतार्थस्यास्तीति प्रतीयते, तत्राचार्योपाध्यायो गीतार्थी, भिक्षुः गीतार्थोऽगीतार्थश्च, गीतार्थस्य अगीतार्थस्य च कारणे यतनया कारणे अयतनया अकारणे यतनया अकारणे अयतनया पृथक् प्रथक् अन्यत् अन्यत् प्रायश्चिचं, सहासहपुरुषाद्यपेक्षातुल्येपि प्रायश्चित्ते आपद्यमाने पृथगन्योऽन्यो दानविधिरत एतेन कारणेनाचार्यादयस्त्रिविधा भवंति, मूत्रे भवे इति बहुत्वेप्येकवचनं प्राकृतत्वात् प्राकृते हि वचनव्यत्ययोपि क्वविद् भवति इति, एनामेव गाथां व्याख्यानयति ॥ कज्जाकजजयाजय अविजाणतो अगीतो जे सेवे, सो होइ तस्स दप्पो गीये दप्पो जह दोसाभा०१७२॥
कार्य नाम प्रयोजनं, यच्च प्रयोजनं तच्च अधिकृतप्रवृत्तेः प्रयोजकत्वात् कारणं, अत एवान्यत्रोक्तं कारणंति वा कजंति वा एगई, ततोयमर्थः अगीतोऽगीतार्थः कारणं न जानाति, यस्मिन्प्राप्ने प्रतिसेवना क्रियते । अकारणं न जानाति यस्मिन् प्रतिसेवना न क्रियते, तथा कारणे अकारणे वा प्राप्त सेवनं कुर्वन् यतनामयतनां वा न जानाति, एतान्यजानानो यः सेवते प्रतिसेवते, तस्य दप्पो भवति । सा तस्य दपिका प्रतिसेवना भवतीति भावः, गीतार्थः पुनः सर्वाण्यप्येतानि जानाति ततः कारणे प्रतिसेवते, ना कारणे, कारणेपि यतनया न पुनरयतनया ततः शुद्ध एव न प्रायश्चित्तविषयोऽगीतार्थस्य त्वज्ञानतया दर्पण प्रतिसेवमानस्य प्रायश्चित्तं यदि पुनः गीतार्थोपि दर्पण प्रतिसेवते, कारणेप्ययतनया च तदा तुल्यामगीतार्थेन समं त
॥ ५८॥
For Private and Personal Use Only