SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie पीठिका श्री व्यवहारसूत्रस्य ॥५५॥ द्वितीयं चोत्तरस्थानेऽनुवर्तते एकंच द्वयोरर्द्धमित्यत्रा पक्रांत्या ज्ञेयं प्रायश्चित्तदानमिदमिति संक्षिप्तमुक्तमिति, विनेयजनानुग्रहाय यंत्रककल्पनया विशेषतो भाव्यते, तत्र यंत्रकविधानमिदं तिर्यक द्वादशगृहकानि क्रियते, अधोमुखं च विंशतिगृहाणि एवं च द्वादशगृहात्मिका विंशतिग्रहपंक्तयो जाताः । तत्र विंशतितमायां पंक्तौ दक्षिणतो ये अंतिमे ये दे दे गृहके ते मुक्त्वा तस्या अधस्तात् दशगृहात्मिका एकविंशतितमा पंक्तिः स्थाप्या, तस्यामप्येकविंशतितमायां पंक्तौ ये द्वे मंतिमे गृहके ते मुक्त्वा अधस्तात् अष्टगृहात्मका द्वाविंशतितमा पंक्तिः स्थापनीया, तस्यामपि ये द्वे अंतिमे गृहके ते मुक्त्वा तस्या अधस्तात पगृहात्मिका प्रयोविंशतितमा पंक्तियंसनीया, तस्यामपि ये द्वे अंतिमे गृहके ते विमुच्य तस्या अधस्ताच्चतुर्ग्रहात्मिका चतुर्विंशतितमा पंक्तिः स्थापयितव्या तस्यामपि ये द्वे अंतिमे गृहके ते परित्यज्य तस्या अधस्तात् द्विगृहात्मिका पंचविंशतितमा पंक्तिः स्थाप्या, तस्या अधस्तादेकगृहात्मिका षड्विंशतितमा पंक्तिः, एवं पड्विंशपंक्त्यात्मकस्य यंत्रकस्य सर्वोपरि तस्याः प्रथमपंक्तरुपरि प्रथमगृहके कृतकरण आचार्यः स्थापनीयः, द्वितीये गृहके अकृतकरणः, तृतीये कृतकरण उपाध्यायः, चतुर्थे स एवाकृतकरणः, पंचमे अधिगतस्थिरभिक्षुः कृतकरणः, षष्टे स एवाकतकरणः, सप्तमे अधिगतास्थिरभिक्षुः कृतकरणः, अष्टमे स एवाकृतकरणः, नवमे अनधिगतस्थिरभिक्षुः कृतकरणः, दशमे स एवाकृतकरणः; एकादशे अनधिगतास्थिरभिक्षुः कृतकरणः, द्वादशे अनधिगतोऽ स्थिरोऽकृतकरणः, एवं स्थापयित्वा कृतकरणस्याचार्यस्य मूलं तस्मिन्नेवापराधेडकृतकरणस्य छेदः उपाध्यायस्य मूलमापन्नस्य कृतकरणस्य च्छेदः प्रकृतकरणस्य षण्मासगुरुस्तत्रैवापराधे मिक्षोरधिगतस्य स्थिरस्य कुतकरणस्य पएमासगुरुः, अकृतकरणस्य षण्मासलघुः। अधिगतस्य भिक्षोरस्थिरस्य कृतकरणस्य षण्मासलघु, ॥ ५५॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy