________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रनुसरणीयः एतदेव व्याचक्षाण आह । सव्वेसिं अविसिट्टो पावत्तीतेण पढमया मूलं, सावेक्खे गुरुमूलं कयाकए होइ पुण छेत्रोउ ।भा-१६७॥ सावेक्खोत्ति च काउं, गुरुस्स कयजोगिणो भवे छेदो. अकयकरणंमि छगुरु इइअड्डोकतीए नेयं ।
इति प्रायश्चित्तदानविधिरुक्तप्रकारेण कथयितुमभीष्टो, यदा सर्वेषामाचार्यादीनामापत्तिः प्रायश्चित्तस्यापादनं, अविशिष्टा सापेक्षाणां च महत्यपराधे मूलं नानवस्थाप्यं, पारांचितं वा ततः प्रथमतया सर्वेषां मूलमापनमविशिष्टमधिकृत्य गुरुलाघव चिंतया प्रायश्चित्तदानविधिरुच्यते, तत्र सापेक्षे गुरौ आचार्य गाथायां विभक्तिलोपः प्राकृतत्वात्कृते कृतकरणे प्रायश्चित्तं मूलं, सापेक्षे इति वचनात् , महत्यप्यपराधे गुरौ सापेक्षत्वात् मूलमेव प्रायश्चित्तं, नवनवस्थाप्यं, परांचितं वेति ज्ञापितं एतदेव चोपजीव्य प्रागप्येवमस्माभिर्व्याख्यातं; अकृते अकृतकरणे गुराविति संबंधादाचार्ये भवति प्रायश्चित्तं छेदः, | सावेक्खोत्ति च काउमित्यादि, अत्र गुरुशब्देनोपाध्यायः प्रोच्यते आचार्यस्योक्तत्वात् गुरोरुपाध्यायस्य कृतयोगिनः कृतकरणस्य मूलं प्रायश्चित्तमापनस्यापि सापेक्ष्य इति कृत्वा प्रायश्चित्तं छेदो भवति, तस्यापि कृतकरणस्य मनाक् निरपेक्षतायां मूलमपि प्रायश्चित्तं बिइए मूलं व छेदो छग्गुरुगा इति वचनाद् अकृतकरणे तु तस्मिन्नेवोपाध्याये मूलमापनेपि प्रायश्चित्तं पद्गुरुकाः । गुरवः षण्मासाः। अकृतकरणतया छेदप्रायश्चित्तस्याप्यनहत्वात् इति एवममुना प्रकारेण अड्डोकंतीए इति एकैकस्भिन्नाचार्यादौ स्थाने कुतकरणभेदतो द्वे द्वे प्रायश्चित्ते तयोश्च द्वयोरेकमायं प्रायश्चित्तमुपकामति न तूत्तरस्थानेऽनुवर्तते
१.
For Private and Personal Use Only