________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
क्षणा इतरे सामादकृतकरणाः; अत्रैव मतांतरमाह । अहिगयेत्यादि केचिदाचार्या ये अधिगतास्ते नियमात कतकरणा इत्यधिगतानां कृतकरणस्वमिच्छति, कस्मादिति चेदत आह जोगायतगारिहाइति, निमित्तकारणहेतुपु सर्वासां विभक्तीनां प्रायोदर्शनमिति वृद्धवैयाकरणप्रवादात् हेतावत्र प्रथमा ततोयमर्थः यतस्तैर्महाकल्पश्रुतादीनामायतकाला योगा उद्व्यूढास्तत
आयतकयोगाहा अभवनिति नियमतो अधिगताः कृतकरणा इति, तदेवं कृताः पुरुषभेदमार्गणा सांप्रतममीयां प्रायश्चित्तदानविधिवक्तव्यस्तत्र ये निरपेक्षा जिनकल्पिकादयस्ते यत् प्रायश्चित्तमापनास्तदेव तेभ्यो दीयते न तद्विषया गुरुलाघवचिंता निरपेक्षत्वात सापेक्षाणां तु सापेक्षतयैव प्रायश्चित्तदानविधौ तद्विषया गुरुलाघवचिंता कर्त्तव्या, तत्र यानि प्रायश्चित्तानि दातव्यानि, तानि संक्षेपतो गाथाद्वयेनाह । निम्विइए पुरिमड्डे. एकासण अंबिले चउत्थेय, पणगं दस पहारसा वीसा तह पन्नवीसाय भा० १६४॥ मासोलहुओ गुरुगो, चउरो मासा हवंति लहुगुरुगा, छम्मासा लहुगुरुगा छेदो मूलं तह दुगं च भा०१६५॥
निर्विकृतिक विकृतिप्रत्याख्यानं पुरिमटुंति दिवसपूर्वार्द्धप्रत्याख्यान, एकाशनाचाम्लचतुर्थानि प्रतीतानि, पणगंति, रात्रिंदिवानां पंचकं लहुगुरुयंति वक्ष्यमाणं पदमत्रापि व्याख्यानतो विशेषप्रतिपत्तिरिति विभक्तिपरिणामेन संबंध्यते, लघुरात्रिंदिवपंचकं गुरुरात्रिंदिवपंचकं च तत्र लघुरात्रिंदिवपंचकमाचाम्लेन एकद्व्यादिदिन हीनं, परिपूर्ण गुरुरात्रिंदिवपंचक एवं दसत्ति लघुरात्रिंदिवदशकं गुरुरात्रिंदिवदशकं, पन्नरसात्ति लघुरात्रिदिवपंचदशकं गुरुरात्रिंदिवपंचदशकं पणवीसत्ति |
For Private and Personal Use Only