________________
Shri Mahavir Jain Aradhana Kendra
++++++++++
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धपरिहारविशुद्धिका यथालंदकन्पिकाश्च, एते नियमतः कृतकरणा एव अकृतकरणानामन्यतमस्यापि कल्पस्य प्रतिपच्ययोगात् सापेक्षा अपि त्रिविधा आचार्यादयस्तद्यथा । आचार्या उपाध्याया भिक्षवच एते प्रत्येकं द्विधा भूयो भवति तद्यथाआचार्याः कृतकरणा कृतकरणाच उपाध्याया अपि कृतकरणा अकृतकरणाच भिक्षवोपि कृतकरणा अकृतकरणाश्च तत्र कृतकरणानां चित्यमानत्वादस्यां गाथायामेते कृतकरणा ग्राह्याः ॥
अककरणावि दुविहा, अणहिगया अहिगया य बोधव्वा, जं सेबेइ अहिगए अणहिगए अस्थिरे इच्छा
इहाचार्या उपाध्यायाश्च कृतकरणा अकृतकरणा वा नियमात् गीतार्थाः स्थिराश्च तत इहाकृतकरणा भिचव एव ग्राह्याः, ते कृतकरणा भिक्षवो द्विविधास्तद्यथा अनधिगताश्च अधिगताश्च अनधिगता नाम श्रगीतार्थाः अधिगता गीतार्थाः, अपिशद्धः संभावने सचैतत्संभावयति, ये भिक्षवोऽनधिगतास्ते द्विविधास्तद्यथा स्थिरा अस्थिराव स्थिरा नाम धृतिसंहननसंपन्नाः तद्विपरीता स्थिराः, अधिगता अपि द्विधा स्थिरा अस्थिराश्च कृतकरणा अपि भिक्षवो द्विधा अधिगताः अनधिगता अनधिगता श्रपि द्विधा स्थिरा अस्थिर अधिगता अपि द्विविधाः स्थिरा अस्थिराव अत्रैव संक्षेपतः प्रायश्चित्तदानविधिमाह जं सेवेह इत्यादि यत् प्रायश्चित्तस्थानं सेवते प्रतिसेवते अधिगतो गीतार्थ उपलक्षणमेतत् कृतकरणः स्थिरथ तस्मै तदेव परिपूर्ण दीयते, तदेव प्रायश्चित्तस्थानं प्राप्ते अनधिगते अस्थिरे व अस्थिरे, च शज्ञादकृतकरणे च गुरोः प्रायश्चित्तदानविधौ इच्छा सूत्रोपदेशानुसारेण स्वेच्छा तथाहि यदि श्रुतोपदेशानुसारतः कृतकरणः स्थिरोधिगत इति वा कृत करणादिरपि समर्थइति विज्ञातो भवति तदा यदेव प्रायश्चित्तमापन्नस्तदेव तस्मै दीयते । अथासमर्थे इति परीचित इति
For Private and Personal Use Only
***+++++++++***--*+++