________________
Shri Mahavir Jain Aradhana Kendra
-**********++++
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कस्मादेवं शब्दाभेदेपि अर्थनानात्वमिति चेत् ? उच्यते शब्दार्थयोर्भेदाभेदविषये चतुभंगिकायाभावात् तथाहि अर्थस्थाप्यभेदः शब्दस्थाप्यभेद इति प्रथमो भंग: अर्थस्याभेदः शब्दस्य भेद इति द्वितीयः, अर्थस्याभेदः शब्दस्याभेदः इति तृतीयः अर्थस्य भेदः शब्दस्य भेदः इति चतुर्थः एतेष्वेव चतुर्थभंगकेषु क्रमेणोदाहरणान्युपदर्शयति ।
पढमो इंदोत्ति बिइय होइइंदसकोन्ति; तइओ गो भूप पसू रस्तिणोत्ति चरमो धडपडोति ॥ भा० १५७॥
प्रथमो भंगोऽथभेदः शब्दोऽभेदः इत्येवंरूपो यथा इंद्र इंद्र इति । तथाह्येकेनापि इंद्र इत्युक्तं द्वितीयेनापि इंद्र इति अत्र च द्वितीयेनापि इंद्र इति । अत्र च द्वयोरपि शब्दयोः स्वरूपाभेदेऽथभेदय । द्वितीयभेदः शब्दस्य भेद इति रूपो यथा इंद्रशइति अत्र हि शब्दस्य नानात्वमर्थस्त्वभिन्न एव द्वयोरप्येकार्थिकत्वात् तृतीयोऽर्थस्य भेदः शब्दस्याभेद इत्येवंलक्षणो यथा भूप पशु रश्मिषु पुरुषभेदेन कालभेदेन वा प्रयुज्यमाना गोशब्दाः । अत्र हि गौरिति सर्वत्राप्यभिन्न इति, चरमो यथा घट पट इति अत्र हि द्वयोरपि शब्दयोः रूपभेदोप्यस्ति अर्थभेदोपि तत उपपद्यते शब्दाभेदेपि अर्थनानात्वमर्थाभेदेपि शब्दनानात्वं तेन यदुच्यते अभिधानाभेदतो नास्ति विशेष इति । तदनेक्रांतिकमुपदर्शितं भूपपशुरश्मिवाचिनां । गोशब्दानामभिधानाभेदेप्यर्थविशेषदर्शनात् स चार्थविशेषोत्रीऽप्यस्ति यथोक्तं प्राक् अभिधानाभेदत इति यद् उक्तं तत् प्रत्यक्षविरुद्धं व्यंजनभेदस्य साचादुपलभ्यमानत्वात् तथाह्येकत्र कल्प इति - अपरत्र व्यवहार इति ॥ अथार्थगत्याभिधानाऽभेद उच्यते न स्वरूपतस्तदप्यसत् अर्थविशेषस्याप्युभयत्र भावात्तथा चाह ।
For Private and Personal Use Only
*******************