________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-*
पीठिका
श्री व्यवहारसूत्रस्य
Ka-**-
व्यवहारे व्यवहाराध्ययने पुनर्व्यवहृतानि दानव्यवहारविषयीकृतानि किमुक्तं भवति कल्पाध्ययने मूलगुणापराधे वा आभवंति प्रायश्चित्तान्युक्तानि अस्मिंस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्चित्तानां दानमुक्तमिति यानि च कल्पाध्ययने आभवंति प्रायश्चित्तानि नोक्तानि तानि व्यवहारभिधीयते तेषां दानं च किंच । अविसेसियं च कप्पे इहइंतु विसेसियं इमं; चउहा पडिसेवण संजोयण श्रारोवण कुंचियं चेव ॥भा०१५५॥
चः समुच्चये अन्यच्चेत्यर्थः । कल्पे कल्पाध्ययने प्रायश्चित्तमविशेषितं विशेषरहितमुक्तं । इहइन्तुत्ति इः पादपूरणे सानुस्वारता पूर्ववत् तुः पुनरर्थे इह व्यवहाराध्ययने पुनरिदं प्रायश्चितं चतुर्दा चतुर्भिः प्रकारेविशेषितं, तानेव प्रकारान्नाह । प्रतिसेवनं संयोजनमारोपणं कुंचनमिति प्रतिकुंचनं एतानि अनंतरमेव सप्रपंचं व्याख्यातानीति न भूयो व्याख्यायते तदेवभिधेयाभेदतो नास्ति विशेष इति यदुक्तं तदसिद्धमिति प्रतिपादितमभिधेय भेदस्य दर्शित्वात् । यत्पुनरुच्यते अभिधानाभेदतो नास्ति विशेष इति तदनैकांतिकमिति दर्शयति । नाणत्तं दिस्सएप थे. अभिन्ने जणम्मिविः वंजणस्स य भेदमि कोइअत्थो न भिजए।भा०१५६॥ ___व्यज्यते प्रकटीक्रियते अर्थाऽनेन प्रदीपेनेव घट इति व्यंजनं शब्दस्तस्मिन् अपिशब्दो भिन्नक्रमः स चैवं योजनीयोऽभिअपि एकरूपेपि एकअर्थे अर्थविषय नानात्वं दृश्यते यथा सैधव इन्युक्ते तत्तत्प्रस्तावादिना अश्वलवणवस्त्राद्यर्थनानात्वं, तथा व्यंजनस्य शब्दस्य भेदेपि च शब्दोऽपिशब्दाथों भिन्नक्रमश्चेत्यत्र संबध्यते कश्चिदयों न भिद्यते. यथा खं, व्योम, आकाशमिति
ke-
-
k
Fire-ick-
o
For Private and Personal Use Only