________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* कप्पमिवि पच्छित्तं ववहारंमिवि तहव पच्छित्तं। कप्पववहाराणं को णु विसंसोत्ति चोएइ ॥भा०१५२॥ | ननु कल्पे प्रायश्चित्तमुक्तं. व्यवहारेपि तदेव प्रायश्चित्तमभिधीयते ततः कल्पव्यवहारयोः को नु विशेषो नैव कश्चनापीतिभावः | न तुशब्दस्याक्षेपद्योतकत्वादिति चोदयति । प्रश्नयति शिष्यः । अपि चाभिधानतोपि कल्पव्यवहारयोविशषानुपपत्तिः तथाचाह । | जो अवितहक्वहारी सो नियमा वट्टए उ कप्पमि । इय बिहु नत्थिविसेसो अज्झयणाणं दुवेण्हंपि॥१५३।।
यो नाम साधुरवितथव्यवहारी स नियमादवश्यंभावेन वर्तते एव तुरेवकारार्थः कल्पे आचारे आचारवर्त्तिन एवं यथोतावितथव्यवहारकारित्वात् । यश्च वर्तते कल्पे आचारे स नियमादवितथव्यवहारकारी अवितथव्यवहारकारिण एवाचारे वृत्तिसंभवात् इत्थं च परस्परमविनाभावित्वं कल्पव्यवहारशब्दयोरेकार्थिकत्वात् तथाहि कल्पो व्यवहार आचार इत्यनर्थातरमिति इयबिहु इत्यपि एवमपि अर्थगत्याभिधानाभेदतोपि प्रास्तां प्रागुक्तप्रकारेणाभिधेयाभेद इत्यपि शब्दार्थः हुनिश्चितं द्वयोरपि कन्पव्यवहारयोरध्ययनयोनास्ति विशेषः एवं परेणाभिधेयाभेदतोऽभिधानाभेदतश्चैक्ये प्रतिपादिते मूरिरभिधेयभेदं दर्शयन् कप्पारोवणेत्ति अवयवं व्याख्यानयति कप्पंमि कप्पिया खलु मलगुणे चेव च उत्तरगुगणे य:ववहारे क्वहरिय। पायच्छित्ता भवंते य॥भा०१५४॥ ____ कन्पे कम्पाध्ययने कल्पितान्येव प्ररूपितान्येव खलु शब्दस्यैवकारार्थत्वात् नतु दानव्यवहारे प्रवर्तितानि कानीत्यत आह मूलगुणा चव उत्तरगुणा य इति विषयेण विषयिणो लक्षणात मूलगुणापराधप्रायश्चित्तानि उत्तरगुणापराधप्रायश्चित्तानि ।
For Private and Personal Use Only