________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
श्री व्यवहारसूत्रस्य
पीठिका
॥५०॥
प्रतिकुंच्यते अन्यथा प्रतिसेवितमन्यथा कथ्यते, यया सा प्रतिकुंचना सा चतुर्विधा तद्यथा दव्ये द्रव्यविषया एवं क्षेत्रे काले भावे च अत्र परस्य प्रश्नमभिधित्सुराह चोयगत्ति । अत्र चोदको ब्रूते ननु कल्पेपि प्रायश्चित्तमभिहितं, व्यवहारेपि तदेव प्रायश्चित्तमभिधीयते इति द्वयोरप्यध्ययनयोर्विशेषाभावः अत्रार्थे रिवचनं । कप्पारोवणेत्यादि । कल्पे कल्पाध्ययने कल्पितानां मूलोत्तरगुणापराधप्रायश्चित्तानामारोपणं, दानमिह व्यवहाराध्ययने भणित, इंइति पादपूरणे इजेराः पादपूरणे इति वचनात् , सानुस्वारता प्राकृतत्वात् प्राकृते हि पादांते सानुस्वारता भवतीति किमुक्तं भवति । कल्पाध्ययने आभवत् प्रायश्चित्तमुक्तं नतु दानमिह तु दानं भणितमिति विशेषः, तथा कम्पाध्ययने प्रायश्चित्ताहोः पुरुषजाता न भणिता इह तु भणिता इति महान् विशेषः एष गाथासंक्षेपार्थः सांप्रतमेनामेव गाथा म्याचिख्यासुः प्रथमतो द्रव्यादिभेदभिन्ना प्रतिकुंचनां व्याख्यानयति । सचित्ते अचित्तं जणवयपडिसेवियं तु अद्धाणे, मुभिक्खंमि भिक्खे हठेण तहा गिलाणेणं ।। भा०१५१॥
द्रव्यविषया प्रतिकुंचना नाम सचित्ते उपलक्षणमेतत् मिश्रे वा प्रतिसेविते अचित्तं मया प्रतिसेवितमित्यालोचयति, क्षेत्रप्रतिकुंचना जनपदे प्रतिसेव्य यदध्वनि प्रतिसेवितमित्यालोचयति, कालप्रतिकुंचना यत्सुभिक्षे काले सेवित्वा दुर्भिक्ष मया प्रतिसेवितमित्यावेदयति, भावप्रतिकुंचना यत् दृष्टेन सता प्रतिसेव्य ग्लानेन सता मया प्रतिसेवितमित्यालोचयति उक्ता प्रतिकुंचना अधुना अनंतरगाथोत्तरार्ध व्याख्यानयन् अज्झयणाण विसेसो इति द्वारं व्याख्यानयति तत्र चोयग इत्यवयवं व्याचिख्यासुराह ।
॥५०॥
For Private and Personal Use Only