________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीर्थवर्तिनोपश्चिमतीर्थकरतीर्थवर्तिनश्च धैर्याद्यनुपपेता धैर्येण धृतिबलेन आदिशब्दात् संहननवलेन च कालदोषतोऽनुपपेताः तएवित्ति तकानपि तद्धर्माता तेषामिव आदितीर्थकरतीर्थवर्तिनामिव धर्मोऽशठत्वादिकः स्वभावो येषां ते तद्धर्माणस्तभावः तद्धर्मता सा शोधयति इयमत्र भावना इह अशटभावेनानिहितबलवीर्यतया यथाशक्ति तपःकर्मणि प्रवृत्तिविंशोधेरांतरं कारणं तच बाह्यतपः कर्मणो वैषम्येपि सर्वेषामप्यविशिष्टमतः सर्वेषां तुज्या विशोधिः युक्तं चैतत् तथाहि प्रथमतीर्थकर तीर्थपि न सर्वेषां देहवलं धृतिबलं च समानमथ च सर्वेषामप्यशठभावतया प्रवृत्तेस्तुलया विशोधिरेवमत्रापि भावनीयमित्यदोषः । अत्रैव निदर्शनमाह । | पथ्थगा जे पुरा श्रासि हीणमाणाउ तेधुणा, माण भंडाणि धन्नाणि सोहे जाणे तहेवय भा० १४६॥
ये पूरा पूर्वकाले प्रस्थक आसीरन् ते कालदोषतः क्रमेण हीना हीनतरा जायमाना अत्यंतहीनमाना जातास्तथा धान्यादिभांडानि प्रस्थकादिपरिमाणपरिछेद्यानि तथैव संख्याव्यवहारस्य सर्वदाप्यविशिष्टत्वात् एवमिहापि प्रायश्चित्तानां वैषम्येपि अशठभावेन तपःकर्मणि प्रवृत्तिरांतरं कारणं सर्वेषामप्यविशिष्टमपि शोधिमपि तुशब्दस्यापि शब्दार्थस्य भिन्नक्रमत्वात् तथैव धान्यानां प्रस्थकपरिच्छेद्यतामिव तुल्यां जानीहि प्रस्थकदृष्टांतेन सर्वत्र तुल्यां विशोधिमवबुध्यस्वेति भावः, उक्तमारोपणाप्रायश्चित्तमिदानी प्रतिकुंचनाप्रायश्चित्तमाह । दव्वे खेत्ते काले भावे पलिउंचणा चउविगप्पा, चोयगकप्पारोवण इहइं भणिया पुरिसजाया ॥भ०१५०॥
For Private and Personal Use Only