________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंतीस
भाष्यकारेण दूषणम् अप्युक्तम् । तथा धवखदिरौ निष्कौशाम्बिर्गोरथो घृतघटो । गुड़धानाः केशचूडः सुवर्णालंकारो द्विदशाः । सप्तपर्ण इत्यादौ इतरेतरयोगातिक्रान्तयुक्तपूर्णमिश्रसङ्घातविकारसुच्प्रत्ययलोपो वीप्साद्यर्था वाचनिका वाच्याः ।
इत्युक्तम् । धवखदिरौ निष्कौशाम्बिगोरथो घृतघटो गुड़धानाः केशचूड: सुवर्णालङ्कारो द्विदशा: सप्तपर्ण इत्यादौ साहित्यकान्तयुक्तपूर्णमिश्रसङ्घातविकारसुच्प्रत्ययलोपवीप्साद्यर्था वाचनिका वाच्याः ।
(ख) वभूसा० (पृ० २७१-७१)
दूषणान्तरम् ग्राह :-- चकारादिनिषेधोऽथ,
बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते न्यायसिद्धं ।
त्वस्माकं तदिति स्थितिः ।।
''बहुव्युत्पत्ति भञ्जनम्' इति 'प्राप्तोदको ग्रामः' इत्यादौ 'प्राप्तिकत्रभिन्नम् उदकम्' इत्यादिबोधोत्तरं तत्सम्बन्धिग्रामलक्षणायाम् अपि 'उदककर्तृ कप्राप्तिकर्म ग्राम:' इत्यर्थालाभात् । 'प्राप्त' इति 'क्त' प्रत्ययस्यैव कत्रर्थकस्य कर्मणि लक्षणेति चेत् तर्हि समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेः उदकाभिन्नप्राप्तिकर्मेति स्यात् । अन्यथा 'समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय'व्युत्पत्तिभङ्गापतेः । प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धे भेदेनोदकस्य तत्रान्वयासम्भवाच्च ।
पलम० (पृ० ४३४-३५)
दूषणान्तरम् आह :
चकारादिनिषेधो स्थितिः। प्राप्तो. दकः' इत्यादौ पृथक् शक्तिवादिनां मते 'प्राप्तिकभिन्नम् उदकम्' इत्यादिबोधोत्तरं तत्सम्बन्धिग्रामलक्षणायाम् अपि 'उदककर्तृकप्राप्तिकर्म ग्रामः' इत्यर्थालाभे प्राप्ते 'प्राप्त' इति 'क्त' प्रत्ययस्य कर्बर्थकस्य कर्मार्थे लक्षणा। ततोऽपि "समान विभक्तिकनामार्थयोरभेद एव संसर्गः" इति व्युत्पत्त्या 'उदकाभिन्नं कर्म' इति स्यात् । 'उदकस्य'कर्तृतया 'प्राप्तौ' अन्वये तु "नामार्थयोरभेदान्वय०"- व्युत्पत्तिभञ्जनं स्याद् इति तात्पर्यम् ।
(ग) वैभूसा० (पृ० २८२-८८)
यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादय :-न समासे शक्तिः । 'राजपुरुषः' इत्यादौ 'राज' पदादेः सम्बन्धिनि लक्षणयैव 'राजसम्बन्ध्यभिन्नः पुरुषः' इति बोधोपपत्तेः। अत एव 'राज्ञः' पदार्थंकदेशतया न 'शोभनस्थ' इत्यादिविशेषणान्वयः न वा 'घनश्यामो निष्कौशाम्बिोरथः' । इत्यादौ इवादिप्रयोगापत्तिः । उक्तार्थकतयेवादिपदप्रयोगासम्भवात् । न वा "विभाषा" इति सूत्रावश्यकत्वम्। लक्षणया 'राजसम्बन्ध्यभिन्नः' इति बुबो
पलम० (पृ० ४१०-२१)
-यत्तु व्यपेक्षावादिनो नैयायिक मीमांसकदयः --- न समासे शक्तिः । 'राजपुरुषः' इत्यादौ 'राज'-पदादेः सम्बन्धिनि लक्षणयव 'राजसम्बन्धवदभिन्नः पुरुषः' इति बोधात् । अत एव 'राज्ञः' पदार्थंकदेशत्वान्न तत्र 'ऋद्धस्य' इत्यादिविशेषणान्वयः ।.'न वा 'धनश्यामः', 'निष्कौशाम्बिः', 'गोरथः' इत्यादाविवादिप्रयोगापत्तिः । लक्षणयवोक्तार्थतया 'उक्तानामप्रयोगः' इति न्यायेनेवादीनाम् अप्रयोगात् । नापि “विभाषा"
For Private and Personal Use Only