________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
37. विशेषा० . मतिस्त्वतज्जन्यत्वात् तत्कार्यतया ने व्यपदिश्यते, तस्या हेत्वन्तरात् सदा सिद्धत्वात् , स्वविशेषभूतश्रुतोपयोगोपरमे तु क्रमायात मत्यवस्थानं न निवार्यते, आमरणान्तं केवलश्रुतोपयोगप्रसङ्गात् ॥ इति गाथार्थः ॥ ११० ॥
तदेवं भावश्रुतं मतिपूर्व व्यवस्थाप्य मतान्तरमुपदर्शयन्नाह
देव्वसुयं मइपुव्वं भासइ जं नाविचिंतियं केइ । भावसुयस्साभावो पावइ तेसिं न य विसेसो ॥ १११॥
'के त्ति' 'मतिपूर्व श्रुतम् ' इत्यत्रागमवचने केचिदेवं व्याचक्षते । किम् ?, इत्याह-- द्रव्यश्रुतं शब्दरूपं मतिपूर्वम् , न भावश्रुतम् । तत्र युक्तिमाह- 'भासइ जं नाविचिंतियं ति' यद् यस्मात् कारणात् अविचिन्तितमविवक्षितं न कोऽपि भाषते न शब्दमुदीरयति, यच्च विवक्षाज्ञानं तत किल मतिरिति तेषामभिप्रायः, ततश्च मतिपूर्व द्रव्यश्रुतं सिद्धं भवति । एतस्मिन् व्याख्याने दोषमाह-तेषामेवं व्याख्यातृणां भावश्रुतस्य सर्वथैवाऽभावः प्राप्नोति, यतो वक्तगतं विवक्षोपयोगज्ञानं तैरेव मतित्वेन व्याख्यातम् , अन्यथा शब्दस्य मतिपूर्वकत्वाभावात् , श्रोतुरपि शब्दं श्रुत्वा प्रथमं यदवग्रहादिज्ञानं तत् तावद् मतिरेव, ऊर्ध्वमपि च तस्या भावभुतं नाभ्युपगन्तव्यम, 'मतिपूर्व भावश्रुतम्' इत्यस्मत्पक्षवर्तित्वप्रसङ्गात् । यदपृण्वतोऽभाषमाणस्य चाऽनुप्रेक्षादिष्वन्तजेल्पारूषितं ज्ञानं विपरिवर्तते तद् भाक्श्रुतं भविष्यतीति चेत् । तदयुक्तम्, यतस्तदपि यद्यवग्रहाद्यात्मकमतिपूर्व तदा भावश्रुतं नेष्टव्यम्, अस्मत्पक्षाभ्युपगमप्राप्तेरेव । अथ मतिपूर्व तद् नेष्यते, तथापि तत् सविकल्पकत्वेन मतिरेव, शब्दविवक्षाज्ञानवत्, शब्दविवक्षाज्ञानेऽपि हि शब्दविकल्पोऽस्ति, तमन्तरेण शब्दाभिधानासंभवात् , न चासौ भावद्युतत्वेनेष्टः; तस्माद् मतेरनन्तरं सर्वत्र शब्दमात्रस्यैवोत्थानम् , न भावश्रुतस्य; अस्मत्पक्षाङ्गीकरणप्रसङ्गात् , विकल्पज्ञानानि च विवक्षाज्ञानवद् मतित्वेनोक्तान्येव, इति सर्वत्र भावश्रुताभावः प्रसजति । भवतु स तर्हि, इति चेत । इत्याह- 'न य विसेसो त्ति' भावश्रुताभावे मति-श्रुतयोर्विशेषो भेदश्चिन्तयितव्यो न स्यात, स हि द्वयोरेवोपपद्यते । यदाच मतिरेवास्ति, न भावश्रुतम् , तदा तस्याः केन सह भेदचिन्ता युज्यत ? इति भावः। द्रव्यश्रुतरूपेण शब्देन सह मतेर्भेदचिन्ता भविष्यतीति चेत् । तदयुक्तम् , ज्ञानपञ्चकविचारस्येहाधिकृतत्वात् , तदधिकारे च शब्देन सह भेदचिन्ताया अप्रस्तुतत्वात् । चिन्त्यतां वा 'मतिपूर्व द्रव्यश्रुतम्' इत्येवं मतेः शब्देनापि सह विशेषः, किन्तु सोऽपि न घटते ॥ इति गाथार्थः॥१११ ॥ _ कुतो न घटते ?, इत्याह
.. द्रव्यश्रुतं मतिपूर्व भाषते यद् नाऽविचिन्तितं केचित् । भावश्रुतस्याभावः प्राप्नोति तेषां न च विशेषः ॥१७॥
दैव्वसुयं बुद्धीओ सा वि तओ जमविसेसओ तम्हा । भावसुयं मइपुव्वं दव्वसुयं लक्खणं तस्स ॥११२॥ यदिति यस्मात् कारणाद् यथा द्रव्यश्रुतं शब्दो बुद्धेर्मतेः सकाशाद् भवतीति भवद्भिः प्रतिपाद्यते, तथा हन्त ! साऽपि बुद्धिस्ततः शब्दाद श्रोतुर्भवत्येव । ततश्च 'मइपुव्वं सुयमुत्तं न मई सुयपुब्विया विसेसोऽयं' इति मति-श्रुतयोर्भेदप्रतिपादनार्थ योऽसौ विशेषोऽत्र प्रतिपादयितुं प्रस्तुतः, स द्वयोरप्यन्योन्यं पूर्वभावितायाः समानत्वाद् न प्राप्नोति, इत्यनन्तरगाथापर्यन्तावयवेन संबन्धः । तस्मात् तेषां मतेविशेषतः कारणाद् यदस्माभिःमा समर्थितम्-भावश्रुतं मतिपूर्वमिति, तदेव युक्तियुक्तम् । शब्दलक्षणं तु द्रव्यश्रुतं तस्य भावश्रुतस्य लक्ष्यते गम्यतेऽनेनेति लक्षणं लिङ्गम् ॥ इति गाथार्थः ॥ ११२ ॥
कुतस्तत् तस्य लक्षणम् ?, इत्याह
सैंयविण्णाणप्पभवं दव्वसुयमियं जओ विचिंतेउं । पुव्वं, पच्छा भासइ लक्खिज्जइ तेण भावसुयं ॥११३॥
श्रुतविज्ञानप्रभवं सविकल्पकविवक्षाज्ञानकार्य शब्दरूपं द्रव्यश्रुतमिदं यत् परैर्मतिपूर्वत्वेनेष्यते, कथं पुनस्तद्भावश्रुतप्रभवं विज्ञायते ?, इत्याह- यतः सर्वोऽपि पूर्व विचिन्त्य वक्तव्यमर्थ चित्ते विकल्प्य पश्चात् शब्दं भाषते, यच्च तच्चिन्ताज्ञानं तच्छृतानुसारित्वाद् भावश्रुतम् , इति भावश्रुतप्रभवता द्रव्यश्रुतस्य विज्ञायते; यच्च यस्मात् प्रभवति तत् तस्य कार्यम् , अतस्तेन कार्यभूतेन द्रव्यश्रुतेन खकारणभूतं भाव श्रुतं लक्ष्यत इति तत् तस्य लक्षणमुक्तम्, अस्ति भावश्रुतमत्र, तत्कार्यस्य शब्दस्य श्रवणात् , इत्येवं तेन भावश्रुतस्य लक्ष्यमाणत्वादिति । द्रव्यश्रुतस्य च भावश्रुतलक्षणता मतान्तरवादिना विपर्यस्तत्वप्रतिपादनार्थमुपदर्शिता, भावश्रुतप्रभवस्यापि शब्दस्य तैर्मतिपूर्वत्वप्रतिपादनात् ॥ इति गाथार्थः ॥ ११३॥
अथ यथा मति-श्रुतयोः कार्य-कारणभावाद् भेदः, तथा तयोः प्रत्येक स्वस्थानेऽपि सम्यक्त्व-मिथ्यात्वपरिग्रहाद् भेद एवेत्यनुपङ्गतो दर्शयितुं नन्यध्ययनागमे मति-श्रुतयोः कार्य-कारणभावेन भेदप्रतिपादनानन्तरमिदं सूत्रमस्ति, तद् यथा “अविसेसिया मई द्रव्यश्रत भाव द्रव्यश्रुतं बुद्धः साऽपि ततो यदविशेषतस्तस्मात् । भाषश्रुतं मतिपूर्व द्रव्यश्रुतं लक्षण तस्य ॥ ११२॥ २ गाथा १०५।
घ. 'पूर्वभावयोः' । ४ श्रुतविज्ञानप्रभवं द्रव्यश्रुतमिदं यतो विचिन्त्य । पूर्व, पश्चात् भाषते लक्ष्यते तेन भावश्रुतम् ॥ ११३॥ ५ अविशेषिता मतिमंतिज्ञानं च मस्यज्ञानं च, विशेषिता मतिः-सम्यग्दृष्टेमतिमतिज्ञानम् , मिथ्यादृष्टेमतिर्मत्यज्ञानं; एवं अविशोषितं श्रुतं श्रुतज्ञानं श्रुताज्ञानं च, विशेषितं श्रुतम्-सम्यग्दृष्टेः भुतं श्रुतज्ञानम् , मिथ्यादृष्टेः श्रुतं श्रुताज्ञानम् ।
For Private and Personal Use Only