________________
Shri Mahavir Jain Aradhana Kendra
Lek
www.kobatirth.org
38
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
मइनाणं च मइअन्नाणं च विसेसिया मई- सम्महिहिस्स मई मइनाणं, मिच्छादिट्ठिस्स मई मइअन्नाणं, एवं अविसेसियं सुयं सुयनार्ण सुयअन्नाणं च विसेसियं सुयं सम्मद्दिडिस्स सुयं सुयनाणं, मिच्छादिट्ठिस्स सुगं सुयअन्नाणं " सम्यग्दृष्टि - मिध्यादृष्टिसंवन्धतोऽविशेषितेन मतिशब्देन मतिज्ञानं मत्यज्ञानं च द्वे अपि प्रतिपाद्येते, सम्यग्दृष्टित्व विशेषितेन तु मतिध्वनिना मतिज्ञानमेवोच्यते, मिथ्यादृष्टविशेषितेन तु तेनैव मत्यज्ञानमेवाऽभिधीयते, एवं श्रुतेऽपि वाच्यमिति सूत्रभावार्थः । तदेतदानुषङ्गिकं सूत्रोक्तमनुवर्तमानो भाष्यकारोऽप्याह
विसेसिया मइ चिय सम्मदिट्ठिस्स सा मइण्णाणं । मइअन्नाणं मिच्छदिट्ठिस्स सुयं पि एमेव ॥ ११४ ॥ सम्यग्दृष्टि- मिध्यादृष्टिभावेनाऽविशेषिता मतिर्मतिरेवोच्यते, न तु मतिज्ञानं मत्यज्ञानं चेति निर्धार्य व्यपदिश्यते, सामान्यरूपायां तस्यां ज्ञाना-ज्ञानविशेषयोर्द्वयोरप्यन्तर्भावात् । यदा तु सम्यग्दृष्टेरेव संबन्धिनी सा मतिर्विवक्ष्यते, तदा मतिज्ञानमिति निर्दिश्यते । यदा तु मिध्यादृष्टिसंबन्धिनी तदा मत्यज्ञानम् । एवं श्रुतमप्यविशेषितं श्रुतमेव, विशेषितं तु सम्यग्दृष्टेः श्रुतज्ञानं, मिध्यादृष्टस्तु श्रुताज्ञानम्, 'सम्यष्टि संबन्धिनो बोधस्य सर्वस्यापि ज्ञानत्वात् मिथ्यादृष्टिसत्कस्य त्वज्ञानत्वात् । इति गाथार्थः ॥ ११४ ॥ ननु यथा मति श्रुताभ्यां सम्यग्दृष्टिर्घटादिकं जानीते, व्यवहरति वः तथा मिथ्यादृष्टिरपि तत् किमिति तस्य सत्कं सर्वमयज्ञानमुच्यते १, इत्याशङ्कयाह
सैद - सविसेसणाओ भवउजदिच्छिओवलम्भाओ । नाणफलाभावाओ मिच्छद्दिट्ठिस्स अण्णाणं ॥ ११५ ॥ सचासच्च सद-सती तयोरविशेषणमविशेषस्तस्माद् हेतोः, मिथ्यादृष्टेः संबन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते, तो सवेनाsसद् विशिष्यते, असतोऽपि च सवेन सद् भिद्यते । मिध्यादृष्टिश्च घंटे सत्व- प्रमेयत्व-मूर्तत्वादीन्, स्तम्भ- रम्भा-म्भोहादिव्या यादीच पटादिधर्मान् सतोऽप्यसच्वेन प्रतिपद्यते, 'सर्वप्रकारैर्घट एवायम्' इत्यवधारणात् । अनेन ह्यवधारणेन सन्तोऽपि सत्व- प्रमेयत्वादयः पटादिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा सत्त्व- प्रमेयत्वादिसामान्यधर्मद्वारेण घटे पटादीनामपि सद्भावात् 'सर्वथा घटएवायम्' इत्यवधारणानुपपत्तेः, 'कथञ्चिद् घट एवाऽयम्' इत्यवधारणे त्वनेकान्तवादाभ्युपगमेन सम्यग्दृष्टित्वप्रसङ्गात् तथा पट-पुट-नट-शकटादिरूपं घटेऽसदपि सच्चेनाऽयमभ्युपगच्छति 'सर्वैः प्रकारैर्घटोऽस्त्येव' इत्यवधारणात्, 'स्यादस्त्येव घट:' इत्यत्र१ भावशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम् । मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव ॥ ११४ ॥ + विशेष्यते । २ सद्सदविशेषणाद् भवहेतुयदृच्छोपलम्भात् । ज्ञानफलाभावाद, मिध्यादृष्टेरज्ञानम् ॥ ११५ ॥
"
धारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वमाप्तेः । तस्मात् सद- सतीर्विशेषाभावादुम्यत्तकस्यैव मिथ्यादृष्टेर्बोधोऽज्ञानम् । तथा विपर्यस्त - त्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवधहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवध - तिलादिदहन जलाद्यवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेः, दया-प्रशम-ब्रह्मचर्याऽऽकिञ्चन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात् तस्याऽज्ञानम् । तथा विरत्यभावेन ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानम् || इति गाथार्थः ॥ ११५ ॥
तदेवं सप्रसङ्गः प्रतिपादितो हेतु-फलभावादपि मति श्रुतयोर्भेदः, सांप्रतं भेदभेदात् तयोस्तमभिधातुमाह
'भेयकयं च विसेसणमट्ठावीस इविहंगभेयाइ । इंद्रियविभागओ वा मइ सुयभेयो जओऽभिहियं ॥ ११६॥
भेदा अवग्रहादयः अङ्गाऽनङ्गप्रविष्टत्वादयश्च तत्कृतं वा मति श्रुतयोर्विशेषणं भेदः, यतोऽवग्रहादिभेदादष्टाविंशत्यादिविधं मतिज्ञानं ' वक्ष्यते ' इति शेषः, श्रुतज्ञानं त्वङ्गाऽनङ्गप्रविष्टत्वादिभेदमभिधास्यते । अथवा इन्द्रियविभागाद् मति श्रुतयोर्भेदः, यतोऽन्यत्र पूर्वगतेऽभिहितम् । इति गाथार्थः ॥ ११६ ॥
किमभिहितम् १, इत्याह
सोइंदिओवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूर्ण दव्वसुयं अक्खरलंभो य सेसेसु ॥ ११७ ॥
न्द्रो जीवस्तस्येदमिन्द्रियम्, श्रूयतेऽनेनेति श्रोत्रम्, तच्च तदिन्द्रियं चेति श्रोत्रेन्द्रियम्, उपलम्भनमुपलब्धिर्ज्ञानम्, श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति तृतीयासमासः, श्रोत्रेन्द्रियस्य बोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति षष्ठीसमासः, श्रोत्रेन्द्रियद्वारकं ज्ञानमित्यर्थः, श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति बहुव्रीहिणाऽन्यपदार्थे शब्दोऽप्यधिक्रियते । ततश्चाद्यसमासद्वये श्रोत्रेन्द्रियद्वारकमभि लापप्लावितोपलब्धिलक्षणं भावश्रुतमुक्तं द्रष्टव्यम्, बहुव्रीहिणा तु तस्यां भावश्रुतोपलब्धावनुपयुक्तस्य वदतो द्रव्यश्रुतम्, तदुपयुक्तस्य तु वदत उभयश्रुतमभिहितं वेदितव्यम् । इह च व्यवच्छेदफलत्वात् सर्वं वाक्यं सावधारणं भवति, इष्टवाऽवधारणविधिः प्रवर्तते ततः 'चैत्रो धनुर्धर एव' इत्यादिष्विवेहाऽयोगव्यवच्छेदेनाऽवधारणं द्रष्टव्यम्, तद्यथा श्रुतं श्रोत्रेन्द्रियोपलब्धिरेव, न तु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति श्रोत्रेन्द्रियोपलब्धिस्तु श्रुतं मतिर्वा भवति, यथा धनुर्धरचैत्रोऽन्यो वेति, श्रोत्रेन्द्रियोपलब्धेरवग्रहे - हादिरूपाया मतित्वात्,
१ भेदकृतं च विशेषणमष्टाविंशतिविधाङ्गभेदादि । इन्द्रियविभागतो वा मति श्रुतभेदो यतोऽभिहितम् ॥ ११६ ॥ X - + च । - श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं शेषकं तु मतिज्ञानम् । मुक्त्वा द्रव्यश्रुतमक्षरलाभश्च शेषेषु ॥ ११७ ॥ 5 तस्थ- 1
For Private and Personal Use Only