________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
अनुपेक्षादिकालेऽभ्युह्य श्रुतपर्यायवर्धनेन मत्यैव श्रुतज्ञान पूर्यते पोष्यते पुष्टि नीयत इत्यर्थः, तथा मत्यैवाऽन्यतस्तत् माप्यते गृह्यते, तथा मत्यैव तदन्यस्मै दीयते व्याख्यायते, नाऽमत्या न मतिमन्तरेणेत्यर्थः, प्राकृतत्वात् पुंलिङ्गनिर्देशः । तथा गृहीतं सदेतत् परावर्तन-चिन्तनद्वारेण मत्यैव पाल्यते स्थिरीक्रियते, इतरथा मत्यभावे तद् गृहीतमपि मणश्येदेवत्यर्थः । श्रुतज्ञानस्यैते पूरणादयोऽर्था विशिष्टाभ्यूहधारणादीनन्तरेण कर्तुं न शक्यन्ते, अभ्यूहादयश्च मतिज्ञानमेव, इति सर्वथा श्रुतस्य मतिरेष कारणम्, श्रुतं तु कार्यम् , कार्य-कारणभावश्च भेदे सत्येवोपपयते, अभेदे पट-तत्स्वरूपयोरिव तदनुपपत्तेः । तस्मात् कारण-कार्यरूपत्वा मति-श्रुतयोर्भेदः ॥ इति गाथार्थः॥१०६॥
अथ श्रुतस्य मतिपूर्वतां विघटयमाह+ णोणाणण्णाणाणि य समकालाई जओ मइ-सुयाई । तो न सुर्य मइपुज्य महणाणे या सुयनाणं ॥१०॥
इहमति-श्रुते वक्ष्यमाणयुक्त्या द्विविध-सम्पगइष्टनिसरूपे, मिध्यारष्टेस्त्वज्ञानस्यभाषे । तत्रज्ञाने अशाने घेते प्रत्येक समफालमेव भवतः, तत्क्षयोपशमलाभस्पाऽऽगमे युगपदेष निर्देशात् । यतश्चैते शाने अशाने च मति-श्रुते पृथक् समकाले भवतः, ततो म श्रुतं मतिपूर्व युज्यते, न हि सममेवोत्पन्नयोः सव्ये-तरगोविषाणयोरिव पूर्व पश्चाद्भावः संगच्छते । अथोत्सूत्रोऽप्यसदाग्रहवशात् स न त्यज्यते, इत्याह-'मइणाणे वा इत्यादि' इदमुक्तं भवति-मतिज्ञाने समुत्पन्ने तत्समकालं च श्रुतज्ञानेऽनभ्युपगम्यमाने श्रुताज्ञानं जीवस्य प्रसज्यते, श्रुतज्ञानानुत्पादेऽद्यापि तदनिवृत्तेः, न च ज्ञाना-ऽज्ञानयोः समकालमवस्थितिरागमे क्वचिदप्यनुमन्यते, विरोधात-ज्ञानस्य सम्यग्दृष्टिसंभवित्वात् , अज्ञानस्य तु मिथ्यादृष्टिभावित्वात् ।। इति गाथार्थः॥१०७ ॥
अत्र प्रतिविधानमाह. ईह लद्धिमइ-सुयाइं समकालाइं, न तूवओगो सिं । मइपुव्वं सुयमिह पुण सुओवओगो मेइप्पभवो ॥१०॥
ननु ध्यान्ध्यविजृम्भितमिदं परस्य, अभिप्रायापरिज्ञानात् , तथाहि-द्विविधे मति-श्रुते तदावरणक्षयोपशमरूपलब्धिता, उपयोगतश्च । तत्रेह लब्धितो ये मति-श्रुते ते एव समकालं भवतः, यस्त्वनयोरुपयोगः स युगपद् न भवत्येव, किन्तु केवलज्ञान-दर्शनयोरिव तथास्वाभाव्यात क्रमेणैव प्रवर्तते । अत्र तर्हि लब्धिमङ्गीकृत्य मतिपूर्वता श्रुतस्योक्ता भविष्यतीति चेत् । नैवम् , इत्याह-मतिपूर्व श्रुतम् ,इह +नाणा- ज्ञाने अज्ञाने च समकाले यतो मति-श्रुते । ततो न श्रुतं मतिपूर्व मतिज्ञामे वा श्रुताऽज्ञानम् ॥ १०७॥
१ इह लब्धिमति-श्रुते समकाले न तूपयोगोऽनयोः । मतिपूर्व श्रुतमिह पुनः श्रुतोपयोगो मतिप्रभवः ॥ १०॥ तु श्रुतोपयोग एव मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः, श्रुतोपयोगो हि विशिष्टमन्तर्जल्पाकारं श्रुतानुसारि ज्ञानमभिधीयते, तच्चाऽवग्रहे-हादीनन्तरेणाऽऽकस्मिकं न भवति, अवग्रहादयश्च मतिरेव, इति तत्पूर्वता श्रुतस्य न विरुध्यते ॥ इति गाथार्थः ॥ १०८।।
तदेवं मतिपूर्व श्रुतमिति समर्थितम् , परस्तु मतेरपि श्रुतपूर्वताऽऽपादनेनाऽविशेषमुद्भावयन्नाह
सोऊण जा मई भे सा सुयपुव त्ति तेण न विसेसो । सा दव्वसुयप्पभवा भावसुयाओ मई नत्थि ॥१०९॥
परस्माच्छब्दं श्रुत्वा तद्विषया 'भे' भवतामपि या मतिरुत्पद्यते सा श्रुतपूर्वा श्रुतकारणैव, शब्दस्य श्रुतत्वेन प्रागुक्तत्वात् , तस्याश्च मतेस्तत्प्रभवत्वेन भवतामपि सिद्धत्वात् । ततश्च न विसेसो त्ति' अन्योन्यपूर्वभावितायां मति-श्रुतयोर्न विशेष इत्यर्थः। तथा च सति ने मई सुयपुब्विय त्ति' यदुक्तं पाक्, तदयुक्तं प्रामोतीति भावः ॥ अत्रोत्तरमाह-परस्माच्छब्दमाकर्ण्य या मतिरुत्पद्यते, सा हन्त ! शब्दस्य द्रव्यश्रुतमात्रत्वाद् द्रव्यश्रुतप्रभवा, न भावश्रुतकारणा, एतत् तु न केनापि वार्यते, किन्त्वेतदेव वयं ब्रूमो यदुत- भावश्रुताद् मतिर्नास्ति, भावश्रुतपूर्विका मतिर्न भवतीत्यर्थः, द्रव्यश्रुतप्रभवा तु भवतु; को दोषः १ ॥ इति गाथार्थः ॥१०९॥
ननु भावश्रुतादूर्ध्वं मतिः किं सर्वथा न भवति ? , इत्याहकैजतया, न उ कमसो कमेण को वा मइं निवारेइ ? । जं तत्थावत्थाणं सुयस्स सुत्तोवओगाओ॥ ११० ॥
भावश्रुताद मतिः कार्यतयैव नास्तोत्यनन्तरोक्तगाथावयवेन संबन्धः । 'न उ कमसो त्ति' क्रमशस्तु मतिर्नास्तीत्येवं न, किं तर्हि ?, क्रमशः साऽस्ति, इत्येतत् सर्वोऽपि मन्यते, अन्यथा आमरणावधि श्रुतमात्रोपयोगप्रसङ्गात् । यदि क्रमशः साऽस्ति, तर्हि क्रमेण भवन्त्यास्तस्या भवन्तः किं कुर्वन्ति ?, इत्याह-'कमेणेत्यादि' वाशब्दः पातनार्थे, सा च कृतैव, क्रमेण भवन्तीं मति को निवारयति ?, मत्या श्रुतोपयोगो जन्यते, तदुपरमे तु निजकारणकलापात् सदैव प्रवृत्ता पुनरपि मतिरवतिष्ठते, पुनस्तथैव श्रुतं, तथैव च मतिः, इत्येवं क्रमेण भवन्त्या मतेर्निषेधका वयं न भवाम इत्यर्थः। किमिति ?,इत्याह-यद् यस्मात् कारणात् तत्र तस्यां मतौ अवस्थान स्थितिर्भवति, श्रुतोपयोगाच्च्युतस्य ततः क्रमेण मतिं न निषेधयामः। इदमुक्तं भवति-यथा सामान्यभूतेन सुवर्णेन स्वविशेषरूपाः कङ्कणा-ऽङ्गुलीयकादयो जन्यन्ते, अतस्ते तत्कार्यव्यपदेशं लभन्त एव, सुवर्ण त्वतज्जन्यत्वात तत्कार्यतया न व्यवाहियते, तस्य कारणान्तरेभ्यः सिद्धत्वात, कङ्कणादिविशेषोपरमे तु सुवर्णावस्थानं क्रमेण न निवार्यते; एवं मत्यापि सामान्यभूतया स्वविशेषरूपश्रुतोपयोगो जन्यते, अतस्तत्कार्य स उच्यते , xच्चस्स- १ श्रुत्वा या मतिर्भवता सा श्रुतपूर्वेति तेन न विशेषः । सा द्रव्यश्रुतप्रभवा भावश्रुताद् मतिर्नास्ति ॥ १०९॥ २ गाथा १०५
. ३ कार्यतया, में तु क्रमशः क्रमेण को वा मतिं निवारयति ।। यत् तत्रावस्थानं श्रुतस्य श्रुतोपयोगतः॥११॥ (चुतस्य)
For Private and Personal Use Only