________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
35
विशेषा० रसनलक्षणानां प्रत्येक निर्दृत्यु-पकरणरूपाणां द्रव्येन्द्रियाणां तत्मातिबन्धककर्मावृतत्वादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्त लब्ध्युपयोगरूप श्रोत्रादिभावेन्द्रियज्ञानं भवति, लब्धीन्द्रियावरणक्षयोपशमसंभूताऽणीयसी ज्ञानशक्तिर्भवतीत्यर्थः । तथा तेनैव प्रकारेण द्रव्यश्रुतस्प द्रव्येन्द्रियस्थानीयस्याऽभावेऽपि भावश्रुतं भावेन्द्रियज्ञानकल्पं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति-एकेन्द्रियाणां तावच्छ्रोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किश्चिद् दृश्यत एव, वनस्पत्यादिषु स्पष्टतल्लिङ्गोपलम्भात् , तथाहि-कलकण्ठोद्गी:
मधुरपञ्चमाद्गारश्रवणात् सद्यः कुसुम-पल्लवादिप्रसवो विरहकक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिङ्गमवलोक्यते । तिलकादितरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य, चम्पकाहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्प्रकटनं घ्राणेन्द्रियज्ञानस्य, बकुलादिभूरुहेषु तु रम्भातिशायिमवररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगण्डूपास्वादनात् तदाविष्करणं रसनेन्द्रियज्ञानस्य, कुरबकादिविटपिष्वशोकादिद्वमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणकङ्कणाभरणभूषितभव्यभामिनीभुजलताऽवगृहनसुखाद् निम्पिष्टपबरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच्च झगिति प्रसून-पल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽप्येतद् भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति, तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाधाहारोपजीवनाद् वनस्पत्यादीनामाहारसंज्ञा, संकोचनवल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसंकोचनादिभ्यो भयसंज्ञा, विरहक-तिलकचम्पक-केशरा-ऽशोकादीनां तु मैथुनसंज्ञा दर्शितैव, बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते । तस्माद् भावेन्द्रियपञ्चकावरणक्षयोपशमाद् भावेन्द्रियपश्चकज्ञानवद् भावश्रुतावरणक्षयोपशमसद्भावाद् द्रव्यश्रुताभावेऽपि यच्च यावच्च भावश्रुतमस्त्येवैकेन्द्रियाणाम् , इत्यलं विस्तरेण । तर्हि 'जं विण्णाणं सुयाणुसारेणं' इति श्रुतज्ञानलक्षणं व्यभिचारि प्रामोति, श्रुतानुसारित्वमन्तरेणाप्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेत् । नैवम् , अभिप्रायाऽपरिज्ञानात्, शब्दोल्लेखसहित विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम्, यत्त्वेकेन्द्रियाणामौधिकमविशिष्टभावश्रुतमात्रं तदावरणक्षयोपशमस्वरूपम् , तच्छूतानुसारित्वमन्तरेणापि यदि भवति, तथापि न कश्चिद् व्यभिचारः ॥ इति गाथार्थः ॥ १०३ ।।
पुनरप्याह पर:
एवं सव्वपसंगो, न तदावरणाणमक्खओवसमा । मइ-सुयनाणावरणक्खओवसमओ मइ-सुयाइं ॥१०॥ +नि-।, क. ग. घ. छ. 'यज्ञानं'। २ गाथा १००।३ एवं सर्वप्रसङ्गः, न तदावरणानामक्षयोपशमात् । मति-श्रुतज्ञानावरणक्षयोपशमतो मति-श्रुते ॥ १० ॥
- यदि भाषा-श्रोत्रलब्धिरहितानामपि काष्ठकल्पानां पृथिव्यायेकेन्द्रियाणां स्पष्ट किमप्यनुपलभ्यमानमपि केनापि वागाडम्बरमात्रेण ज्ञानं व्यवस्थाप्यते, तर्हि सर्वेषामपि केवलज्ञानपर्यन्तानां पञ्चानामपि ज्ञानानां प्रसङ्गः सद्भावस्तेषां प्राप्नोतीत्यर्थः-- पश्चापि ज्ञानान्येकेन्द्रियाणां सन्ति, इत्येतदपि कस्माद् नोच्यते ?, स्पष्टानुपलम्भस्य विशेषाभावादिति भावः । अत्रोत्तरमाह-तदेतत्र । कुतः?, इत्याहतदावरणानामवधि-मनःपर्याय-केवलज्ञानावारककर्मणामक्षयोपशमादिति, अक्षयाचेति स्वयमपि द्रष्टव्यम् । इदमुक्तं भवति-केवलज्ञानं तावत् स्वाऽऽवारककर्मणः क्षय एव जायते, अवधि-मनःपर्यायज्ञाने तु तस्य क्षयोपशमे भवतः, एतच्चैकेन्द्रियाणां नास्ति, तत्कार्यादर्शनात् , आगमेऽनुक्तत्वाच इति न सर्वज्ञानप्रसङ्गः । मति-श्रुते अपि तर्हि मा भूताम् , इति चेत् । इत्यत्राह-'मईत्यादि' मति-श्रुतज्ञानावरणक्षयोपशमस्त्वेकेन्द्रियाणामस्त्येव, तत्कार्यदर्शनात् , सिद्धान्तेऽभिहितत्वाच्च । ततश्च तत्क्षयोपशमसद्भावाद् मति-श्रुते भवत एव तेषाम् ॥ इति गाथार्थः ॥ १०४॥
तदेवं समसङ्गः प्रदर्शितो लक्षणभेदाद् मति-श्रुतयोर्भेदः, सांप्रतं हेतुफलभावात् तमुपदर्शयन्नाह- . __ मैइपुव्वं सुयमुत्तं न मई सुयपुब्विया विसेसोऽयं । पुव्वं पूरण-पालणभावाओ जं मई तस्स ॥ १०५ ॥ “ मैइपुव्वगं सुत्त" इति वचनादागमे मतिः पूर्वं यस्य तद् मतिपूर्वं श्रुतमुक्तम् , न पुनर्मतिः श्रुतपूर्विका, इत्यनयोरयं विशेषः ।
भिवेत, तदैवंभूतो नियमेन पूर्व-पश्चाद्भावो घट-तत्स्वरूपयोरिव न स्यात, अस्ति चायम्, ततो भेद इति भाव: किमिति पुनर्मतिपूर्वमेव श्रुतमुक्तम् ?, इत्याह- यद् यस्मात् कारणात् तस्य श्रुतस्य मतिः पूर्व प्रथममेवोपपद्यते । कुतः १, इत्याह'पूरणेत्यादि' पृधातुः पालन-पूरणयोरर्थयोः पठ्यते, तस्य च पिपर्तीति पूर्वम्, इति निपात्यते । ततश्च श्रुतस्य पूरणात् पालनार मतिर्यस्मात् पूर्वमेव युज्यते , तस्माद् मतिपूर्वमेव श्रुतमुक्तम् , पूर्वशब्दचायमिह कारणपर्यायो द्रष्टव्यः, कार्यात् पूर्वमेव कारणस्य भावात "सम्यग्ज्ञानपूर्विका (सर्व) पुरुषार्थसिद्धिः" इत्यादौ तथादर्शनाच्च । ततश्च मतिपूर्व श्रुतमिति कोऽर्थः १, श्रुतज्ञानं कार्यम् , मतिर तत्कारणम् , कार्य-कारणयोश्च मृत्पिण्ड-घटयोरिव कथञ्चिद् भेदः प्रतीत एवेति भावः ॥ इति गाथार्थः॥१०५॥
पूर्णादिधर्मानेव मतेर्भावयन्नाह- . .
पूरिजइ पाविज्जइ दिजइ वा जं मईए नाऽमइणा । पालिज्जइ य मईए गहियं इहरा पणस्सेज्जा ॥ १०६ xपूरण+सुत मतिपूर्व श्रुतमुक्तं न मतिः श्रुतपूर्षिका, विशेषोऽयम् । पूर्व पूरण-पालनभावाद् यद् मतिस्तस्य ॥ १०५॥ २ मतिपूर्वकं श्रुतम् ॥ ३ धर्मोतराचार्यस्य न्यायविन्दो प्रथमपरिच्छेदे आदिमं सूत्रम् । पूर्यते प्राप्यते दीयते वा यद् मत्या नाऽमत्या । पाल्यते च मत्या गृहीतमितरथा प्रणश्येत् ॥१०॥
For Private and Personal Use Only