________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा. चाऽश्रुतानुसारित्वाद् मतिज्ञानम् , यस्तु तेष्वङ्गा-ऽनङ्गमविष्टश्रुतभेदेषु श्रुतानुसारी ज्ञान विशेषः स श्रुतज्ञानम् । ततश्चाङ्गा-ऽनङ्गप्रविष्टादिश्रुतभेदानां सामस्त्येन मतिज्ञानत्वाभावात् , ईहादिषु च मतिभेदेषु श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वासंभवान् नोभयलक्षणसंकीर्णतादोषोऽप्युपपद्यत इति सर्व सुस्थम् । न चेह मति-श्रुतयोः परमाणु-करिणोरिवाऽऽत्यन्तिको भेदः समन्वेषणीयः, यतः मागिहैवोक्तम्- विशिष्टः कश्चिद् मतिविशेष एव श्रुतम् , पुरस्तादपि च वक्ष्यते-वल्कसदृशं मतिज्ञानं तज्जनितदवरिकारूपं श्रुतज्ञानम्, न च वल्क-शुम्बयोः परमाणुकुञ्जरवदात्यन्तिको भेदः, किन्तु कारणकार्यभावकृत एव, स चेहापि विद्यते, मतेः कारणत्वेन, श्रुतस्य तु कार्यत्वेनाऽभिधास्यमानस्वात् । न च कारण-कार्ययोरैकान्तिको भेद, कनककुण्डलादिषु, मृत्पिण्डकुण्डादिषु च तथाऽदर्शनात् । तस्मादवग्रहापेक्षयाऽनमिलापत्वात् , ईहाद्यपेक्षया तु साभिलापत्वात् साभिलापा-ऽनभिलापं मतिज्ञानम् , अश्रुतानुसारि च; संकेतकालप्रवृत्तस्य श्रुतग्रन्थसंबन्धिनो घा शब्दस्य व्यवहारकालेऽननुसरणात् । श्रुतज्ञानं तु साभिलापमेव, श्रुतानुसार्यव च, संकेतकालमवृत्तस्य श्रुतग्रन्थसंबन्धिनो वा शब्दरूपस्य श्रुतस्य व्यवहारकालेऽवश्यमनुसरणादिति स्थितम् ॥ इति गाथार्थः ॥१०॥
अथ श्रुतज्ञानलक्षणस्याऽव्याप्तिदोषमुद्भाययन्नाह परः
जइ सुयलक्खणमेयं तो न तमेगिंदियाण संभवइ । दव्वसुयायीभावम्मि वि भावसुयं सुत्तजइणो व्व ॥१०॥
यदि श्रुतज्ञानस्येदमनन्तरगाथोक्तं लक्षणमिष्यते- श्रुतानुसारि ज्ञानं यदि श्रुतमभ्युपगम्यत इत्यर्थः, तदा तदेकेन्द्रियाणां न सम्भवति न घटते, शब्दानुसारित्वस्य तेष्वसम्भवात् । तदसम्भवश्च मनःप्रभृतिसामाग्यभावात् , इष्यते चाऽऽगमे “ऐगिन्दिया नियमं दुयनाणी, तं जहा-मइअनाणी य सुयअन्नाणी य" इति वचनादेकेन्द्रियाणामपि श्रुतमात्रम्, इत्यव्यापकमेवैतद् लक्षणम् । अत्रोत्तरमाह-'दव्वसुयेत्यादि ' द्रव्यश्रुतं शब्दस्तस्याऽभावेऽप्येकेन्द्रियाणां भावश्रुतमभ्युपगन्तव्यम्, सुप्तयतेरिव; इदमुक्तं भवति-यद्यप्येकेन्द्रियाणां कारणवैकल्याद् द्रव्यश्रुतं नास्ति, तथापि स्वापाद्यवस्थायां साध्वादेरिवाऽशब्दकारणं, अशब्दकार्य च श्रुतावरणक्षयोपशममात्ररूपं भावश्रुतं केवलिदृष्टममीषा मन्तव्यम् । न हि स्वापाद्यवस्थायां साध्वादिः शब्दं न शृणोति, न विकल्पयतीत्येतावन्मात्रेण तस्य श्रुतज्ञानाभावो व्यवस्थाप्यते, किन्तु स्वापाद्यवस्थोत्तरकालं व्यक्तीभवद् भावश्रुतं दृष्ट्वा पयसि सर्पिरिव प्रागपि तस्य तदासीदिति व्यवहियते, एवमेकेन्द्रियाणामपि सामग्रीवैकल्याद् यद्यपि द्रव्यश्रुताभावः, तथाऽप्यावरणक्षयोपशमरूपं भावभुतमवसेयम् , परमयोगिभिदृष्ट
१ यदि श्रुतलक्षणमेतत् ततो न तदेकेन्द्रियाणां संभवति । द्रव्यश्रुताभावेऽपि भावभुतं सुप्तयतेरिव ॥ ३०॥
२ एकेन्द्रिया नियमतो व्यजानाः, तद्यथा-मत्यज्ञानाच श्रुताज्ञानाश्च । त्वाद्, वल्ल्यादिष्याहार-भय-परिग्रह-मैथुनसंज्ञादेस्तल्लिङ्गस्य दर्शनाश्चेति ॥
आह-ननु सुप्तयतिलक्षण दृष्टान्तेऽपि तावद् भावश्रुतं नावगच्छामः, तथाहि- श्रुतोपयोगपरिणत आत्मा शृणोतीति श्रुतम् , श्रूयते तदिति वा श्रुतमित्यनयोर्मध्ये कया व्युत्पत्त्या सुप्तसापोः श्रुतमभ्युपगम्यते । तत्रायः पक्षो न युक्तः, सुप्तस्य श्रुतोपयोगाऽसंभवात् । द्वितीयोऽपि न संगतः, तत्र शब्दस्य वाच्यत्वात् , तस्यापि च स्वपतोऽप्तंभवादिति । सत्यम्, किन्तु शृणोत्यनेन, अस्माद, अस्मिन् वेति व्युत्पत्तिरिहाश्रीयते, एवं च श्रुतज्ञानावरणक्षयोपशमो वाच्यः संपद्यते, स च सुप्तयतेः, एकेन्द्रियाणां चाऽस्तीति न किञ्चित परिहीयते ॥ इति.गाथार्थः ॥१०१॥ अथ दृष्टान्त-दान्तिकयोवैषम्याऽऽपादनेनैकेन्द्रियाणां श्रुतसद्भावं विघटयनाह
भावसुयं भासा-सोयलद्धिणो जुजए न इयरस्स । भासाभिमुहस्स जयं सोऊण य जे हवेज्जाहि ॥१०२॥
भावश्रुतं युज्यत इति संबन्धः। कस्य युज्यते?, इत्याह- भाषा-श्रोत्रलब्धिमतः भाषालब्धिमतः, श्रवणेन्द्रियलब्धिमतश्चेत्यर्थः । कथंभूतं यद्भावश्रुतम् , इत्याह- भाषाभिमुखस्य शब्दमभिधित्सोः 'प्रथममेव मध्ये एतत प्रतिपादयामि' इत्युपयोगरूपं यद् भवेत् , श्रुत्वा वा परोदीरितां भाषां यद् भवेत् 'एतदनेन प्रतिपादितम्' इति इह च यथासंख्यमवगन्तव्यम्- भाषालब्धिमतः प्रथमं भवंत, श्रवणेन्द्रियलब्धिमतस्तु द्वितीयं भवेदिति । 'न इयरस्स त्ति' इतरस्य तु भाषा-श्रोत्रलब्धिरहितस्य भावश्रुतं न युज्यते, अयमभिप्रायः- यस्य सुप्तसाधोाषा-श्रोत्रलब्धिरस्ति, तस्वोत्थितस्य परप्रतिपादन-परोदीरितशब्दश्रवणादिलक्षणं भावश्रुतकार्य दृश्यते, तदर्शनाच सुप्तावस्थायामपि तस्य लब्धिरूपतया तदाऽऽसीदित्यनुमीयते, यस्य त्वेकेन्द्रियस्य भाषा-श्रोत्रलब्धिरहितत्वेन कदाचिदपि भावतकार्य नोपलभ्यते, तस्य कथं तदस्तीति प्रतीयेत? ॥ इति गाथार्थः ।। १०२॥
अत्रोत्तरमाह
जह सुहुमं भाविंदियनाणं दबिदियावरोहे वि । तह दव्वसुयाभावे भावसुयं पत्थिवाईणं ॥ १०३ ॥
इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोक-बहु-बहुतर-बहुतमादितारतम्यभावेन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपश्चकावरणक्षयोपशमः समस्त्येवेति परममुनिवचनम् । ततश्च यथा येन प्रकारेण पृथिव्यादीनामेकेन्द्रियाणां श्रोत्र-चक्षुर्घाण
, भावश्रुतं भाषा-श्रोत्रलब्धिमतो युज्यते नेतरस्य । भाषाभिमुखस्य यत् श्रुत्वा च यद् भवेताम् ॥ १०॥ ३ यथा सूक्ष्मं भावन्द्रियज्ञानं द्रव्योन्द्रयावरोधेऽपि । तथा द्रव्यश्रुताभावे भावश्रुतं पृथ्वयादीनाम् ॥ १३॥
For Private and Personal Use Only