________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
33
विशेषा०
इत्यादि । अत्राह प्रेरक:- यदि नाम यदाऽऽत्मा शृणोति तच्छुतामिति श्रुतज्ञानस्य लक्षणमुच्यते, हन्त ! तर्हि शब्दमेव शृणोति जीव इति सकलजगत्मतीतमेव । ततः किं थूयते ?, इत्याह-- 'जब तओ इत्यादि' यदि च सकः स शब्दो ज्ञानं श्रुतरूपम् , 'तो ति ततो नात्यनो जीवस्य भावः परिणामस्तच्छ्रुतं पामोति, शब्दस्य श्रुतत्वेनेष्टत्वात् , तस्य च पौद्गलिकत्वेन मूर्तत्वात् (आत्मनस्त्वमूर्तत्वात् ) मूर्तस्य चामूर्तपरिणामत्वायोगात् , आत्मनः परिणामश्च श्रुतज्ञानमिष्यते तीर्थकरादिभिः, इति कथं न विरोधः ? इति भावः ।। इति गाथार्थः ॥९८॥
अत्राचार्यः प्रत्युत्तरयति
सुयकारणं जओ सो सुयं च तकारणं ति तो तम्मि । कीरइ सुओवयारो सुयं तु परमत्थओ जीवो॥९९॥ ___ यतो यस्मात् कारणात् स शब्दो वक्त्राऽभिधीयमानः श्रोतगतस्य श्रुतज्ञानस्य कारणं निमित्तं भवति, श्रुतं च वक्तगतवतोपयोगरूपं व्याख्यानकरणादौ तस्य वक्त्राभिधीयमानस्य शब्दस्य कारणं जायते, इत्यतस्तस्मिन् श्रुतज्ञानस्य कारणभूते कार्यभूते वा शब्दे श्रुतोपचारः क्रियते । ततो न परमार्थतः शब्दः श्रुतम् , किन्तूपचारत इत्यदोषः। परमार्थतस्तर्हि किं श्रुतम् , इत्याह-'सुयं त्वित्यादि परमार्थतस्तु जीवः श्रुतम् , ज्ञान-ज्ञानिनोरनन्यभूतत्वात् । तथा च पूर्वमभिहितम्-शृणोतीति श्रुतमात्मैवेति । तस्मात् श्रूयत इति श्रुतमिति कर्मसाधनपक्षे द्रव्यश्रुतमेवाभिधीयते, शृणोतीति श्रुतमिति कर्तृसाधनपक्षे तु भावश्रुतमात्मैवः इति न काचिदनात्मभावता श्रुतज्ञानस्य ॥ इति गाथार्थः॥ ९९॥
अथ प्रकारान्तरेणापि मति-श्रुतयोर्लक्षणभेदमाह
इंदिय-मणोनिमित्तं जं विण्णाणं सुयाणुसारेणं । निययत्युत्तिसमत्थं तं भावसुयं मई सेसं ॥ १० ॥
इन्द्रियाणि च स्पर्शनादीनि मनश्च, इन्द्रिय-मनांसि, तानि निमित्तं यस्य तदिन्द्रियमनोनिमित्तम् , इन्द्रिय-मनोद्वारेण यद् विज्ञानमुपजायत इत्यर्थः । तत् किम् ?, इत्याह-तद् भावश्रुतं श्रुतज्ञानमित्यर्थः। इन्द्रिय-मनोनिमित्तं च मतिज्ञानमपि भवति, अतस्तद्वयवच्छेदार्थमाह'श्रुतानुसारेणेति' श्रूयत इति श्रुतं द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च संकेतविषयपरोपदेशरूपः, श्रुतग्रन्थात्मकचेह गृह्यते, तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञानम्, नान्यत् । इदमुक्तं भवति-संकेतकालप्रवृत्तं श्रुतग्रन्थसंबन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन
१ श्रुतकारणं यतः स श्रुतं च तत्कारणमिति ततस्तस्मिन् । क्रियते श्रुतोपचारः श्रुतं तु परमार्थतो जीवः ॥ ९९ ॥
२ इन्द्रिय-मनोनिमित्तं यद् विज्ञानं श्रुतानुसारेण । निजकार्थोक्तिसमर्थं तद् भावश्रुतं मतिः शेषम् ॥ १०॥ संयोज्य 'घटो घटः' इत्यायन्तर्जल्पाकारमन्तःशब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यज्ज्ञानमुदेति तच्छूतज्ञानमिति । तच्च कथंभूतम् ?, इत्याह- 'निजकार्थोक्तिसमर्थमिति' निजकः स्वस्मिन् प्रतिभासमानो योऽसौ घटादिरर्थस्तस्योक्तिः परस्मै प्रतिपादनं तत्र समर्थ क्षम 'निजकाऽर्थोक्तिसमर्थम् , अयमिह भावार्थः-- शब्दोल्लेखसहितं विज्ञानमुत्पन्नं स्वप्रतिभासमानार्थप्रतिपादकं शब्दं जनयति, तेन च परः प्रत्याय्यते, इत्येवं निजकार्थोक्तिसमर्थमिदं भवति, अभिलाप्यवस्तुविषयमिति यावत् । स्वरूपविशेषणं चैतत् , शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्थोक्तिसामर्थ्याऽव्यभिचारादिति । 'मई सेसं ति' शेषमिन्द्रिय-मनोनिमित्तमश्रुतानुसारेण यदवग्रहादिज्ञानं, तद् मतिज्ञानमित्यर्थः॥
अत्राह कश्चित्-ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते, शेपं तु मतिज्ञानम् , तदा वक्ष्यमाणस्वरूपोऽवग्रह एव मतिज्ञानं स्यात्, न पुनरीहा-ऽपायादयः, तेषां शब्दोल्लेखसहितत्वात; मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत् कथं श्रुतज्ञानलक्षणस्य नातिव्याप्तिदोषः ।, कथं च न मतिज्ञानस्याव्याप्तिमसङ्गः । अपरं च, अङ्गा-ऽनङ्गमविष्टादिषु "अक्खर सन्नी सम्म साईअंखलु सपज्जवसियं च" इत्यादिषु च श्रुतभेदेषु मतिज्ञानभेदस्वरूपाणामवग्रहे-हादीनां सद्भावात् सर्वस्यापि तस्य मतिज्ञानत्वप्रसङ्गात् , मतिज्ञानभेदानां चेहा-ऽपायादीनां सामिलापत्वेन श्रुतज्ञानत्वमाप्रुभयलक्षणसंकीर्णतादोषश्च स्यात् ।। अत्रोच्यते यत् तावदुक्तम्- अवग्रह एव मतिज्ञानं स्यात्, न त्वीहादयः, तेषां शब्दोल्लेखसहितत्वात् । तदयुक्तम्, यतो यद्यपीहादयः साभिलाषाः, तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात् । अथाऽवग्रहादयः श्रुतनिश्रिता एव सिद्धान्ते प्रोक्ताः, युक्तितोऽपि चेहादिषु शब्दाभिलापः सङ्केतकालाद्याकणितशब्दानुसरणमन्तरेण न सङ्गच्छते, अतः कथं न तेषां श्रुतानुसारित्वम् । तदयुक्तम् , पूर्व श्रुतपरिकर्मितमतेरेवैते समुपजायन्त इति श्रुतनिश्रिता उच्यन्ते, न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति, वक्ष्यते च- "पुव्वं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं, तं सुयनिस्सिय' इत्यादि । यदपि युक्तितोऽपि चेत्यायुक्तम्, तदपि न समीचीनम् , संकेतकालाद्याकर्णितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणाऽपि विकल्पपरम्परापूर्वकविविधवचनमवृत्तिदर्शनात्, न हि पूर्वप्रवृत्तसंकेताः, अधीतश्रुतग्रन्थाश्च व्यवहारकाले प्रतिबिकल्पन्ते- एतच्छन्दवाच्यत्वेनैतत्पूर्व मयाऽवगतमित्येवंरूपं संकेतम् , तथाऽमुकस्मिन् ग्रन्थे एतदित्थमभिहितमित्येवं श्रुतग्रन्थं चाऽनुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विकल्पभाषणप्रवृत्तेः। यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽस्माभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहा-ऽपाय-धारणानां सामस्त्येन मतिज्ञानत्वाद् न मतिज्ञानलक्षणस्याऽव्याप्तिदोषः, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव साभिलापज्ञानविशेषेषु भावाद् न धुतज्ञानलक्षणस्याऽतिव्याप्तिकृतो दोषः। अपरं चाहा-ऽनङ्गमविष्टादिश्रुतभेदेषुमतिपूर्वमेव श्रुतमिति वक्ष्यमाणवचनात् प्रथमं शब्दायवग्रहणकालेऽवग्रहादयः समुपजायन्ते, एते
स... 'मुसारिणो द्वारा २ अक्षरं सांझ सम्यक् सादिकं खलु सपर्यवसितं ।। पूर्व श्रुतपरिकर्मितमतेर्यत् सांप्रतं श्रुतातीतम्, तत् श्रुतनिश्रितम् ।
For Private and Personal Use Only