________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
32 विशेषा० त् । किंच, सिद्धानामपि प्रत्यक्षज्ञानाभावः स्यात् , अमनस्कत्वात् तेषाम् । अपरं च, मनोनिमित्तं ज्ञान मनोद्रव्यद्वारेणैव जायते; ततश्च परनिमित्तत्वादनुमानवत् परोक्षमेव तत् कथं प्रत्यक्षं स्यात् ।। किञ्च, यद्येतत् परमार्थतः प्रत्यक्षं स्यात् तदा परोक्षत्वेनोक्तयोर्मति-श्रुतयोर्नान्तर्भवेत् , ततश्च मतेरष्टाविंशतिभेदभिन्नत्वं न स्यात्, मनोज्ञानसंबन्धिनामवग्रहादिभेदानां पार्थक्यमसङ्गात् , तत्पार्थक्ये षष्ठज्ञानाप्राप्तिश्च स्यादिति । तस्मादिन्द्रिय-मनोभवं शान परनिमित्तत्वात् परोक्षम् , मति-श्रुतान्तर्भाषाच परमार्थतः परोक्षम्। संव्यवहारतस्तु प्रत्यक्षमिति स्थितम् ॥ इति गाथार्थः ॥ ९५॥
तदेवं ज्ञानपञ्च यत् प्रत्यक्ष या परोक्ष तवू दर्शितम् , सांप्रत " 'मैं सामि-काल-कारण-विसय-परोक्रवत्तणेहि तुल्लाई " इति
पाहत पार , तदुपज
विशेषस्तदविशेषस्तत्र सत्यपि मति श्रुतवाल स्वामि-कालादिभिर्मतिश्रुतयोरेकत्वम् । तथ
एव । यदि पुनर्बहुभिर्धर्भेदे
सौमित्ताइविसेसाभावाओ मइसुएगया नाम । लक्खण-भेआदिकयं नाणत्तं तयविससे वि ॥ १६ ॥
परः माह- ननु पूर्व मति-श्रुतयो। स्वामि-कालादिभिस्तुस्पस्वमभिदधानर्भयद्भिः स्वहस्ताङ्गाराकर्षणमनुष्ठितम् , यत एवं सति स्वामित्वादिभिर्षिशेषाभाषा मति-श्रुतयोरेकतैय प्राप्ता, म भेदः स्यात् । तथा च न ज्ञानपश्चकसिखि, धर्मभेदे हि वस्तूनां भेदः स्यात् । तदभेदे तु घट-सरस्थरूपयोरिवाऽभेद एष श्रेयानिति भावः । अत्राऽऽचाये। प्रत्युत्तरमाह--'लक्षणेत्यादि तेषां स्वामित्वादीनामविशेषस्तदविशेषस्तत्र सत्यपि मति-श्रुतयोनानात्वं भिन्नत्वमस्ति । किंकृतम्', इत्याह-लक्षणभेदादिकृत, आदिशब्दादु वक्ष्यमाणकार्यकारणभावादिपरिग्रहः, इदमुक्तं भवति- यद्यपि स्वामि-कालादिभिर्मतिश्रुतयोरेकत्वम् , तथापि लक्षण-कार्यकारणभावादिभिर्नानात्वमस्त्येव, घटाकाशादीनामपि हि सत्त्व-प्रमेयत्वा-ऽर्थक्रियाकारित्वादिभिः साम्येऽपि लक्षणादिभेदाभेद एव । यदि पुनर्बहभिधमैं दे सत्यपि फिराद्धर्मसाम्यमात्रादेवार्थानामेकत्वं प्रेयेते, तदा सर्व विश्वमेकं स्यात्, किं हि नाम तद् वस्त्वस्ति यस्य वस्त्वन्तरै कैश्चिद् धर्म साम्यमस्ति । तस्मात् स्वाम्यादिभिस्तुल्यत्वेऽपि लक्षणादिभिर्मति-श्रुतयोर्भेदः ॥ इति गाथार्थः ॥९६ ॥
तान्येव लक्षणादीनि पुरतो विस्तराभिधेयात् संपिण्डयैकगाथया दर्शयतिलैक्खणभेआ हेऊफलभावओ भेयइन्दियविभागा । वाग-क्खर-मूए-यरभेआ भेओ मइ-सुयाणं ॥ ९७ ॥ लक्षणभेदाद् भिन्नलक्षणत्वाद् मति-श्रुतयोर्भेदः । तथा मतिज्ञाने हेतुः, श्रुतं तु तत्फलं तत्कार्यम् । इति हेतुफलभावात् तयो
१ गाथा ८५। २ स्वामित्वादिविशेपाभावाद् मति-श्रुतैकता नाम । लक्षण-भेदाविकृतं नानात्वं तदबिशेपेऽपि ॥ १६॥+T-॥
३ लक्षणभेदादू हेतुफलभावाद भेदेन्द्रियविभागात् । वल्काक्षरमूकेतरभेदाद् भेषो मति-श्रुतयोः ॥ ९ ॥ र्भेदः । तथा 'अति' विभागशब्दोऽत्रापि योज्यते, ततश्च भेदानों विभागो विशेपो भिन्नत्वं भेदविभागः, तस्मादपि मति-श्रुतयोर्भेदः, अवग्रहादिभेदादष्टाविंशत्यादिभेदं हि मतिज्ञानं वक्ष्यते ' अक्खर सन्नी सम्म' इत्यादि वक्ष्यमाणवचनाचतुर्दशादिभेदं च श्रुतज्ञानम् , इति भेदविभागात् तयोर्भेद इति भावः । 'इंदियविभाग त्ति' तत्त्वतः श्रोत्रविषयमेव श्रुतज्ञानम् , शेपेन्द्रियविषयमपि मतिज्ञानम् , इत्येवं वक्ष्यमाणादिन्द्रियविभागाच्च तयोर्भेदः । 'वागेत्यादि' वल्कश्चाऽक्षरं च मूकं च वल्कादिप्रतिपक्षभूतानीतराणि च बल्का-ऽक्षर मुकेतराणि
पोऽसौ भेदस्तस्मादपि मति-श्रुतयोर्भेद इत्यर्थः, तथाहि-- " अन्ने मरगति मई वग्गसमा सुवसरिसयं तु सुत्तं" इत्यादिना ग्रन्थेन का रणत्वाद् बल्कसदृशं मतिज्ञानं, सुंवसदृशं तु श्रुतज्ञानं कार्यत्वादित्यत्रैव वक्ष्यते । तत्र वल्कः पलाशादित्वग्रूपः, शुम्ब वितरशब्देनेहोपा नजनिता दवरिकोच्यते । ततश्चायमभिप्रायः- यथा बलनादिसंस्कृतो विशिष्टावस्थापन्नः सन् वल्को 'दवरिका' इत्युच्यते, तथा परोपदेशाईद्वचनसंस्कृतं विशिष्टावस्थाप्राप्तं सद् मतिज्ञानं श्रुतमभिधीयते, इत्येवं वल्केतरभेदाद् मति-श्रुतयोर्भेदः । तथा
'अन्ने अणक्खर क्खरविसेसओ मइ-सुयाई भिन्दन्ति । जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं' ॥१॥ इत्यादिग्रन्थेन वक्ष्यमाणादक्षरेतरभेदात् तयोर्भेदः । तथा
संपरप्पञ्चायणओ भेओ मूये-यराण वाऽभिहिओ । जं सुयं मइनाणं सपरप्पञ्चायगं सुत्तं ' ॥१॥ इत्याद्यभिधास्यमानवचनाद् मूकेतरभेदाद् मति-श्रुतयोर्भेदः । इति गाथासंक्षेपार्थः, विस्तरार्थं तु भाष्यकारः स्वत एन बक्ष्यति । इयं च गाथा बहुष्वादशेषु न दृश्यते, केवलं क्वचिदादर्शेऽपि दृष्टा, अतीव सोपयोगा च, इत्यस्माभिः किश्चिद् व्याख्यातेति।।९७
तत्र “यथोद्देशं निर्देशः" इति कृत्वा लक्षणभेदं तावदाह
जेमभिनिबुज्झइ तमभिनिबोहो जं सुणइ तंसुयं भणियं । सदं सुणइ जइ तओ नाणं तो नाऽऽयभावो त॥९८॥
यज्ज्ञानं कर्त, वस्तु कर्मताऽऽपन्नमभिनिबुध्यतेऽवगच्छति तज्ज्ञानमभिनिवोधस्तदाभिनिवोधिकं तद् मतिज्ञानमिति यावत , 'जं सुणईत्यादि' यत् पुनर्जीवः शृणोति तच्छ्रुतम् , इत्येवं सूत्रोक्तलक्षणभेदाद् मति-श्रुतयोर्भेदः। तथा च सूत्रम् - "जइ वि सामिचाईहि अविसेसो, तह वि पुणोऽत्थाऽऽयरिआ नाणत्तं पण्णवयंति, तं जहा- अभिनिबुज्झइ ति आभिणिवोहियं
१ अक्षरं संज्ञि सम्यक् । २ गाथा १५४ । ३ गाथा १६२।। ४ गाथा १७१। ५ यदभिनिबुध्यते तदभिनिबोधः, यत् शृणोति तत् श्रुतं भणितम् । शब्दं शृणोति यदि सको ज्ञानं ततो नात्मभावस्तत् ॥ १८ ॥ ६ यद्यपि स्वामित्वादिभिरविशेषः, तथापि पुनरत्राऽऽचार्या नानात्वं प्रज्ञपयन्ति, तद्यथा- अभिनिवुध्यते इत्याभिनिबोधिकम् , शृणोतीति शुतम्
For Private and Personal Use Only