________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
29
विशेषा० __भवतु तादौ मति-श्रुतोपादानम्, केवल पूर्व मतिः, पश्चात्तु श्रुतमित्यत्र कि कारणम्, यावता विपर्ययोऽपि कस्मात् न भवति !, इत्याह
मइपुव्वं जेण सुयं तेणाईए मई, विसिट्ठो वा । मइभेओ चैव सुयं तो मइसमणंतरं भणियं ॥ ८६ ॥ . का मतिः पूर्व प्रथममस्येति मतिपूर्व येन कारणेन श्रुतज्ञानं, तेन श्रुतस्यादौ मतिः, तीर्थकर-गणधरैरुक्तेति शेषः, न ह्यवग्रहादिरूपे मतिज्ञाने पूर्वमप्रवृत्ते कापि श्रुतप्रवृत्तिरस्तीति भावः । 'विसिहो वा मइभेओ चेव सुयं ति' यदि वा इन्द्रियाऽनिन्द्रियनिमित्तझरेणोपजायमानं सर्व मतिज्ञानमेव, केवलं परोपदेशादागमवचनत्वाच्च भवन् विशिष्टः कश्चिद् मतिभेद एव श्रुतं; नान्यत् । ततो मूलभूताया मतेरादौ विन्यासः, तद्भेदरूपं तु श्रुतज्ञानं तत्समनन्तरं भणितमित्यदोषः। 'मइपुव्वं जेण सुर्य' इत्यादिकश्चाऽर्थः पुरतः प्रपश्चेन भणिष्यते ॥ इति गाथार्थः ॥८६॥
अथ मतिश्रुतानन्तरमवधेः, तत्समनन्तरं च मनःपर्यायज्ञानस्योपन्यासे कारणमाह
काल-विवजय-सामित्त-लाभसाहम्मओऽवही तत्तो । माणसमित्तो छउमत्थ-विसय-भावादिसामण्णा ॥७॥ । ततो मति-श्रुताभ्यामनन्तरमवधिनिर्दिष्टः । कुतः, इत्याह-काल-विपर्यय-स्वामित्वलाभसाधात् । तत्र नानाजीवापेक्षया, एकजीवापेक्षया च मति-श्रुताभ्यां सहाऽवधेः समानस्थितिकालत्वात कालसाधर्म्यम् । यथा च मिथ्यात्वोदये मति-श्रताने अज्ञानरूप विपर्यय प्रतिपद्यते, तथाऽवधिरपि, इति विपर्ययसाधर्म्यम् । य एव च मति-श्रुतयोः स्वामी स एवाऽवधेरपि, इति स्वामिसाधर्म्यम् । लाभोऽपि कदाचित् कस्यचिदमीषां त्रयाणामपि ज्ञानानां युगपदेव भवति, इति लाभसाधर्म्यम् । 'माणसमित्तो इत्यादि ' इतोऽवधेरनन्तरं मनोविषयत्वाद् मनसि भवं मानसं मनःपर्यायज्ञानं युक्तम् । कुतः, इत्याह-छद्मस्थ-विषय-भावादिसामान्यात, आदिशब्दात प्रत्यक्षत्वादिसामान्यं गृह्यते, समानस्य भावः सामान्यं साम्यं तस्मादित्यर्थः। तत्र यथाऽवधिज्ञानं छद्मस्थस्यैव भवति तथा मन:पर्यायज्ञानमपीति च्छमस्थसाम्यम् । उभयोरपि पुद्गलमात्रविषयत्वाद् विषयसाम्यम् । द्वयोरपि क्षायोपशमिकभाववृत्तित्वादू भावसाम्यम् । द्वितयस्यापि साक्षाद्दर्शित्वात् प्रत्यक्षत्वसाम्यम् । एवमन्यापि प्रत्यासत्तिरभ्युद्या ।। इति गाथार्थः॥ ८७॥
१ मतिपूर्व येन श्रुतं तेनादौ मतिः, विशिष्टो वा । मतिभेदश्चैव श्रुतं तस्माद् मतिसमनन्तरं भाणितम् ॥ ८६ ॥ श्रुताम्यायधि-॥
२ काल-विपर्यय-स्वामित्व-लाभसाधर्म्यतोऽवधिस्ततः । मानसमितः छमस्थ-विषय--भावादिसामान्यात ॥ ८॥ अथ केवलज्ञानस्य सर्वोपरिनिर्देशे कारणमाहअन्ते केवलमुत्तम-जइसामित्तावसाणलाभाओ । एत्थं च मइ-सुयाई परोक्खमियरं च पञ्चक्खं ॥ ८८ ॥
अन्ते सर्वज्ञानानामुपरि केवलज्ञानमभिहितम् । कुतः ?, इत्याह- भावप्रधानत्वाद् निर्देशस्य-उत्तमत्वात् , सर्वोत्तम हि केवल. ज्ञानम, अतीता-ऽनागत-वर्तमाननिःशेषज्ञेयस्वरूपावभासित्वादिति । यथा च मनःपर्यायशानस्य यतिरेव स्वामी, तथा केवलज्ञानस्थापि, ततो यतिस्वामित्वसाम्याद् मनःपर्यायज्ञानानन्तरं केवलज्ञानमभिहितम् । तथा समस्तापरज्ञानानामवसान एवाऽस्य लाभादबसान एव निर्देश इति । तदेवमुपन्यासक्रमे समर्थिते सत्याह कश्चित-नन्वेतानि पश्च ज्ञानानि किं परोक्षस्वरूपाणि, आहोस्वित् प्रत्यक्षाणि ? इति । अत्राह- "एत्थं चेत्यादि' एतेषु पञ्चसु ज्ञानेषु मध्ये मति-श्रुते परोक्षे, इतरत्त्ववध्यादि ज्ञानत्रयं प्रत्यक्षम् ।। इति गाथार्थः ॥ ८८॥ तत्र प्रत्यक्षस्य लक्षणमाह-- जीवो अक्खो अत्थव्वावण-भोयणगुणण्णिओ जेण । तं पइ वट्टइ नाणं जं पच्चक्खं तय तिविहं ॥८॥
अक्षस्तावज्जीव उच्यते । केन हेतुना ?, इत्याह- ‘अत्थव्वावणेत्यादि' अर्थव्यापन-भोजनगुणान्वितो येन, तेनाऽक्षो जीवः, इदमुक्तं भवति- 'अशू व्याप्तौ' अश्नुते ज्ञानात्मना सर्वार्थान् व्यामोतीत्युणादिनिपातनादक्षो जीवः, अथवा 'अंश भोजने' अश्नाति समस्तत्रिभुवनाऽन्तर्वतिनो देवलोकसमृद्ध्यादीनान् पालयति भुङ्क्ते वेति निपातनादक्षो जीवः, अश्नातेर्भोजनार्थत्वाद् , भुजेश्च पालनाsभ्यवहारार्थत्वादिति भावः । इत्येवमर्थव्यापन-भोजनगुणयुक्तत्वेन जीवस्याऽक्षत्वं सिद्धं भवति । तमक्षं जीवं प्रति साक्षाद्गतमिन्द्रियनिरपेक्षं वर्तते यज्ज्ञानं तत् प्रत्यक्षम् । तच्चाऽवधि-मनःपर्याय केवलज्ञानभेदात् त्रिविधं त्रिप्रकारम् , तस्यैव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद् वर्तमानत्वात् ।। इति गाथार्थः ।। ८९॥
अथ परोक्षज्ञानखरूपमाहअक्खस्स पोग्गलकया जं दव्विन्दिय-मणा परा तेणं । तेहिं तो जं नाणं परोक्खमिह तमणुमाणं व ॥९॥
१ अन्ते केवलमुत्तम-यतिस्वामित्वा-ऽवसानलाभात् । अत्र च मति-श्रुते परोक्षमितरच प्रत्यक्षम् ॥ ८८॥+च२ जीवोऽक्षोऽर्थव्यापन-भोजनगुणाग्वितो येन । सं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं सकत् निविधम् ॥ ८ ॥ ६ अक्षस्य पुद्गलकृतानि यद् द्रव्येन्द्रिय-मनांसि पराणि तेन । तैस्तस्माद् यज्ज्ञानं परोक्षमिह तदनुमानमिव ॥ ९०॥
For Private and Personal Use Only