________________
Shri Mahavir Jain Aradhana Kendra
विशेषा ०
www.kobatirth.org
28
Acharya Shri Kailassagarsuri Gyanmandir
हैत्थम्म मुहुततो दिवसंतो गाउयाम्म बोधव्वे " इत्यादि ॥
तस्मादनया परस्परोपनिबन्धलक्षणया मर्यादया यतो जीवस्तेनाऽवधिना द्रव्यादिकं 'सुणति' (जानाति ), ततोऽवधिरप्युपचा राव मर्यादेति भावः । अवधिश्वासौ ज्ञानं चेत्यवधिज्ञानम्, इति प्रक्रमलब्धेन ज्ञानशब्देन समासः ॥ इति गाथार्थः ॥ ८२ ॥
अथ मनःपर्यायज्ञानविषयां व्युत्पत्तिमाह
पेजवणं पज्जयणं पज्जाओ वा मणम्मि मणसो वा । तस्स व पज्जायादिन्नाणं मणपजैवं नाणं ॥ ८३ ॥
'पज्जवणं ति' 'अब गत्यादिषु' इति वचनादवनं गमनं वेदनमित्यवः, परिः सर्वतोभावे, पर्यवनं समन्तात् परिच्छेदनं पर्यवः । कायम्, इत्याह- 'मणम्मि मणसो व नि' मनसि मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धी पर्यवो मनःपर्यवः, स वासौ ज्ञानं चमनः पर्यवज्ञानम् । अथवा 'पज्जयणं ति' 'अय वय मय' - इत्यादिदण्डकधातुः, अयनं गमनं वेदनमित्ययः, परिः सर्वतोभावे, पर्ययनं सर्वतः परिच्छेदनं पर्ययः । क्व पुनरसौ १, इत्याह- 'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धी पर्ययो मन:पर्ययः स चासौ ज्ञानं च मन:पर्ययज्ञानम् । 'पज्जाओ व त्ति' अथवा 'इण् गतौ' अयनं, आयः, लाभः, प्राप्तिरिति पर्यायाः, परिस्तथैव, समन्तादायः पर्यायः । क्व १, इत्याह- 'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राह्यस्य पर्यायो मनःपर्यायः, स चासौ ज्ञानं च मनःपर्यायज्ञानम् । एवं तावज्ज्ञानशब्देन सह सामानाधिकरण्ययङ्गीकृत्योक्तम् ।।
अथ वैयधिकरण्यमङ्गीकृत्याह - 'तस्स वेत्यादि' वाशब्दः पक्षान्तरसुचकः, तस्येति मनसः, पर्यायाः, पर्यवाः, पर्ययाः, धर्मा इत्यनर्थान्तरमिति; आदिशब्दात् पर्यव - पर्ययपरिग्रहः, ततश्चायमर्थ:- अथवा तस्य मनसो ग्राह्यस्य संबन्धिनो बाह्यवस्तुचिन्तनानुगुणा ये पर्यायाः पर्यवाः, पर्ययास्तेषां तेषु वा 'इदमित्थंभूतमनेन चिन्तितम्' इत्येवंरूपं ज्ञानं मनःपर्यायज्ञानं, मनःपर्यवज्ञानं, मन:पर्ययज्ञानं चेति ज्ञानशब्देन सह व्यधिकरणः समासः । अत एव " पायं च नाणसद्दो नामसमाणाहिगरणोऽयं " इत्यत्र प्रायोग्रहणं करिष्यति ॥ इति गाथार्थः ॥ ८३ ॥
अथ केवलज्ञानविषयं शब्दार्थमाह
"केवलमेगं सुद्धं सगलमसाहारणं अणन्तं च । पायं च नाणसदो नामसमाणाहिगरणोऽयं ॥ ८४ ॥
,
१ हस्ते मुहूर्तान्तर्दिवसान्तर्गव्यूते बोद्धव्यः । २ पर्यवनं पर्ययनं पर्यायो वा मनसि मनसो वा । तस्य वा पर्यायादिज्ञानं मनः पर्यवं ज्ञानम् ॥८३॥ 3 ख ग 'दि ना' । ४ घ छ 'ज्जवनाणं' ॥ ५ गाथा ८४ । ६ केवलमेकं शुद्धं सकलमसाधारणमनन्तं च । प्रायश्च नामशब्दो नामसमानाधिकरणोऽयम् ॥ ८४॥ केवलमिति व्याख्येयं पदम् । ततः केवलमिति कोऽर्थः १, इत्याह-- एकमसहा पमिन्द्रियादिसाहाय्यानपेक्षित्वात् तद्भावे शेष. च्छावस्थिकज्ञाननिवृत्तेर्वा शुद्धं निर्मलं सकलावरणमलकलङ्कविगमसंभूतत्वादिति । सकलं परिपूर्ण संपूर्णज्ञेयग्राहित्वात्, असाधारणमनन्यसदृशं तादृशाऽपरज्ञानाभावात्, अनन्तम्, अप्रतिपातित्वेनाऽविद्यमानपर्यन्तत्वात् इत्येकादिष्वर्थेषु केवलशब्दोऽत्र वर्तते, केवलं च तज्ज्ञानं च केवलज्ञानमिति समासः । आह- नन्वाभिनिवोधिकादीनि ज्ञानवाचकानि नामान्येव भाष्यकृता " अत्थाभिमुो नियओ " इत्यादी सर्वत्र व्युत्पादितानि, ज्ञानशब्दस्तु न कचिदुपात्तः, स कथं लभ्यते १, इत्याशङ्कयाह - ' पायं चेत्यादि ' प्रक्रपलब्धो ज्ञानशब्द आभिनिबोधक-श्रुतादिभिर्ज्ञानाभिधायकैर्नामभिः समानाधिकरणः स्वयमेव योजनीयः, स च योजित एव, तद्यथा - अभिनिबोधिक च तज्ज्ञानं च, श्रुतं च तज्ज्ञानं चेत्यादि । कचिद् वैयधिकरण्यसमासोऽपि संभवतीति प्रायोग्रहणम् । स च मनःपर्यायज्ञाने दर्शित एव अन्यत्रापि च यथासंभवं द्रष्टव्यः ॥ इति गाथार्थः ॥ ८४ ॥
तदेवं ज्ञानपञ्चकस्याप्यभिधानार्थे कथिते आह कश्वित्- नन्त्रादौ मतिश्रुतोपन्यासः किमर्थः १ इति । अत्राऽऽचार्यः प्राह
जं सामि--काल-कारण-विसय-परोक्खत्तणेहिं तुल्लाई । तब्भावे सेसाणि य तेणाईए मइ सुयाई ॥ ८५ ॥ तेन कारणेनादौ मति श्रुते निर्दिष्टे । येन, किम् १, इत्याह- 'जं सामीत्यादि' इति संटङ्कः । मतिशब्दोऽत्राऽऽभिनिबोधिकसमा - नार्थी द्रष्टव्यः, आभिनित्राधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वाद् मतिरित्यप्युच्यते । यद् यस्मात् कारणात् स्वामि-काल-कारण-विषय-परोक्षत्वैस्तुल्ये समानस्वरूपे मति श्रुते, तेनाऽऽदौ निर्दिष्टे इत्यर्थः । तत्र स्वामी तावदनयोरेक एव " जत्थ मइनाणं तत्थ सुयनाणं " इत्याद्यागमवचनादिति । कालोऽपि द्विधा - नानाजीवापेक्षया, एकजीवापेक्षया च । स चायं द्विविधोऽप्यनयोस्तुल्य एव, नानाजीवाSardar द्वयोरपि सर्वकालमनुच्छेदाद्; एकजीवापेक्षया तूभयोरपि निरन्तरसातिरेकसागरोपमषट्पष्टिस्थितिकत्वेनाऽत्रैवाऽभिधास्यमानत्वादिति । कारणमपीन्द्रिय मनोलक्षणं स्वाधरणक्षयोपशमस्वरूपं च द्वयोरपि समानम् । उभयस्याऽपि सर्वद्रव्यादिविषयत्वाद् विषयतुल्यता | परनिमित्तत्वाच्च परोक्षत्वसमतां । ननु यद्येवमनयोः परस्परं तुल्यता, तकत्र द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथम् १, इत्याह- 'तभावे इत्यादि' तद्भावे मति श्रुतज्ञानसद्भाव एव शेषाण्यवध्यादीनि ज्ञानान्यवाप्यन्तेः नान्यथा, न हि स कश्चित् प्राणी भूतपूर्वः अस्ति, भविष्यति वा, यो मति-- श्रुतज्ञाने अनासाद्य प्रथममेवान्वध्यादीनि शेषज्ञानानि प्राप्तवान्, प्राप्नोति, प्राप्स्यति वेति भावः । ततस्तदवाप्तौ शेषज्ञानाऽवाप्तेश्रादौ मति श्रुतोपन्यासः ॥ इति गाथार्थः ॥ ८५ ॥
१ - यक स्वामि-काल-कारण- विषय - परोक्षत्वैस्तुल्यानि । तद्भावे शेषाणि च तेनाऽऽदौ मति श्रुते ॥ ८५ ॥
For Private and Personal Use Only