________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
27
विशेषा०
तत्राऽऽभिनिबोधिकज्ञानशब्दार्थ दर्शयन्नाह
अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सो चेवाऽऽभिणिबोहिअमहव जहाजोगमाउज्ज८०॥
बोधनं बोधः, 'ऋ गतौ' अर्यते गम्यते ज्ञायत इत्यर्थः, तस्याभिमुखस्तद्ग्रहणप्रवणः-अर्थवलाऽध्यातत्वेन तन्नान्तरीयकोद्भव इत्यर्थः, अयमभिशब्दस्याऽर्थो दर्शितः, एवंभूतश्च बोधः क्षयोपशमाद्यपाटवेऽनिश्चयात्मकोऽपि स्यात् , अतो नियतो निश्चित इति निशब्देन विशिष्यते-रसाद्यपोहेन 'रूपमेवेदं ' इत्यवधारणात्मक इत्यर्थः । उक्तं च " एवमवग्रहोऽपि निश्चितमवगृह्णाति, कार्यत उपलब्धे" । अन्यथाऽवग्रहकार्यभूतोऽपायोऽपि निश्चयात्मको न स्यादिति भावः । आह-ननु नियतोऽर्थाभिमुख एव भवति, ततो नियतत्वविशेष
मेवाऽस्तु, किमाभिमुख्यविशेषणेन । तदयुक्तम् , द्विचन्द्रज्ञानस्य तैमिरिक प्रति नियतत्वे सत्यप्याभिमुख्याभावादिति । एवं च सति अर्थाभिमुखो नियतो यो बोधः स तीर्थकर-गणधरादीनामभिनिबोधो मतोऽभिप्रेतः। 'सो चेवाभिणिवोहियमिति ' स एवाभिनिबोध एवाऽऽभिनिबोधिकम् ,विनयादिपाठादभिनिबोधशब्दस्य"विनयादिभ्यष्ठक"पा०-५।४।३४] इत्यनेन स्वार्थ एव ठक्प्रत्ययः, यथा विनय एव वैनयिकमिति । 'अहव जहाजोगमाउजं ति' अथवा नेह स्वार्थिकप्रत्ययो विधीयते, किन्तु यथायोगं यथासंबन्धमायोजनीयंघटमानसंबन्धानुसारेण खयमेव वक्तव्यमित्यर्थः, तद्यथा- अर्थाभिमुखे नियते बोधे भवमाभिनिबोधिकम् , तेन वा निवृत्तं, तन्मयं वा, तत्पयोजनं वाऽऽभिनिबोधिकम् , तच्च तज्ज्ञानं चाऽऽभिनिवाधिकज्ञानम् ॥ इति गाथार्थः॥८॥
तदेवमाभिनिबोधिकशब्दवाच्यं ज्ञानमुक्तम् । अथवा ज्ञानम् , क्षयोपशमः, आत्मा वा तद्वाच्य इति दर्शयन्नाह
ततेण तओ तम्मि व सो वाऽभिणिबुज्झए तओ वा तं । तं तेण तओ तम्मि व सुणेइ सो वा सुअंतेणं ॥१॥
तंति आभिमुख्येन निश्चितत्वेनाऽवबुध्यते संवेदयते आत्मा तदित्यभिनिबोधोऽवग्रहादिज्ञानं, स एवाऽऽभिनिबोधिकम् , अथवा आत्मा तेन प्रस्तुतज्ञानेन, तदावरणक्षयोपशमेन वा करणभूतेन घटादि वस्त्वभिनिबुध्यते, तस्माद् वा प्रकृतज्ञानात् , क्षयोपशमाताभिनिबुध्यतेः तस्मिन् वाऽधिकृतज्ञाने, क्षयोपशमे वा सत्यभिनिबुध्यतेऽवगच्छतीत्यभिनिबोधो ज्ञानं, क्षयोपशमो वा । 'सो वाभिणिबुज्झए त्ति' अथवाभिनिबुध्यते वस्त्वभिगच्छतीत्यभिनिबोधः । असावात्मैव, ज्ञान-ज्ञानिनोः कथश्चिदव्यतिरेकादिति, स एवाऽऽभिनिबोधिकम् । 'तओ वा तमिति' न केवलं ' अत्थाभिमुहो नियओ' इत्यादिव्युत्पत्त्याऽऽभिनिबोधिकमुक्तम् ; किन्तु यतः 'तं तेण
१ अभिमुखो नियतो बोधो यः स मतोऽभिनिधोधः । स चैवाभिनिबोधिकमथवा यथायोगमायोज्यम् ॥ ८॥
२ तत् तेन ततस्तस्मिन् वा स वाऽभिनिवुध्यते ततो वा तत् । तत् तेन ततस्तस्मिन् वा शृणोति स वा श्रुतं तेन ॥ ८१॥३ गाथा ८० । तओ तम्मि' इत्यादि व्युत्पत्त्यन्तरमस्ति, ततोऽपि कारणात् तदाभिनिबोधिकमुच्यत इत्यर्थः । नन्वात्म-क्षयोपशमयोराभिनिबोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं समानाधिकरणता स्यात् ? । सत्यम् , किन्तु ज्ञानस्याऽऽत्माश्रयत्वात् , क्षयोपशमस्य च ज्ञानकारणत्वादपचारतोत्रापि पक्षे आभिनिबोधिकशब्दो ज्ञाने वर्तते, ततश्चाऽऽभिनिबोधिकं च तज्ज्ञानं चाभिनिबोधिकज्ञानमिति समानाधिकरणसमास इत्यदोषः॥
____ अथ श्रुतव्युत्पत्तिमाह- 'तं तेणेत्यादि ' श्रूयत आत्मना तदिति श्रुतं शब्दः, अथवा श्रूयतेऽनेन श्रुतज्ञानावरणक्षयोपशमेन, श्रूयते तस्मात् क्षयोपशमात, श्रूयते तस्मिन् क्षयोपशमे संतीति श्रुतं क्षयोपशमः। 'सुणेइ सो व त्तिति शृणोतीति श्रुतम् , असावात्मेति वा व्युत्पत्तिरित्यर्थः। 'सुयं तेणेति' येनैवं व्युत्पत्तिस्तेन कारणेन श्रुतमुच्यत इत्यर्थः । इह च शब्दस्य श्रुतज्ञानकारणत्वात् क्षयोपशमस्य वद्धेतुत्वादात्मनश्च कथश्चित् तदव्यतिरेकादुपचारतः श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् ॥ इति गाथार्थः ॥ ८१॥
अथाऽवधेय॒त्पादनार्थमाह- .
तेणाव हीयए तम्मि वाऽवहाणं तओऽवही सो य मजाया। जं तीए दव्वाइ परोप्परं मुणंइ तओऽवहित्ति॥८२॥
ततः कारणादवधिरित्युच्यते । यतः किम् ?, इत्याह- 'तेणाव हीयए त्ति' अवशब्दस्याऽव्ययत्वेनाऽनेकार्थत्वादधोऽधो विस्तृतं धीयते परिच्छिद्यते रूपि वस्तु तेन ज्ञानेनेत्यवधिः, अथवा अव-मर्यादया एतावत्क्षेत्रं पश्यन् , एतावन्ति द्रव्याणि, एतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिलक्षणया धीयते परिच्छिद्यते रूपि वस्तु तेनेत्यवधिः। 'तम्मि व त्ति' अथवा अवशब्दस्यार्थद्वयं तथैवाऽवधीयते जीवेन तस्मिन् सति वस्त्वित्यवधिः, अकारस्य लुप्तस्याऽदर्शनात् 'अवहाणं' ति वा शब्दोऽनुवर्तते ततश्चाऽथवाऽवधानमवधिः साक्षादर्थपरिच्छेदनमित्यर्थः, अथवाऽवधीयते तस्माज्जीवेन साक्षाद् वस्त्वित्यवधिरित्युपलक्षणव्याख्यानात् स्वयमेव द्रष्टव्यम् । 'सो यमज्जायत्ति' स चोक्तस्वरूपोऽवधिर्मर्यादयार्थपरिच्छेदने प्रवर्तमानत्वादुपचारतो मर्यादा । एतदेवाह-'जं तीए इत्यादि पुंलिङ्गोऽप्यवधिशब्दः प्राकृतत्वात् स्त्रीत्वेन निर्दिष्टः, ततश्च यद् यस्मात् कारणात् तेनाऽनन्तरोक्तेनाऽवधिना जीवो द्रव्यादि 'मुणति' जानाति । कथंभूतं सत्, इत्याह- परस्परं नियमितमिति शेषः । वक्ष्यति च
" अंगुलमावलिआणं भागमसंखेज दोसु संखेज्जा । अंगुलमावलिअन्तो आवलिआ अंगुलपुहत्तं " ॥१॥ तेनाऽव धीयते तस्मिन् वाऽवधानं ततोऽवधिः स च मर्यादा । यत् तेन व्यादि परस्परं जानाति ततोऽवधिः ॥ ८२ ॥+करण । २ अलावलिकथोर्भागमसंख्येयं द्रयोः संख्येयौ । मङ्गुलावलिकान्तरावलिका भगुरुपृथक्त्वम् ॥३॥
For Private and Personal Use Only