________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
30
विशेषा०
यद् यस्माद् द्रव्येन्द्रियाणि द्रव्यमनश्च, अक्षस्य जीवस्य पराणि भिन्नानि वर्तन्ते । कथंभूतानि पुनद्रव्येन्द्रिय-द्रव्यमनासि ?, इत्याह-पुद्गलकृतानि पुद्गलस्कन्धनिचयनिष्पन्नानि, हेतुद्वारेण चेदं विशेषणं द्रष्टव्यम्-पुद्गलकृतत्वाद्, येन द्रव्येन्द्रिय-मनांसि जीवस्य परभूतानि, तेन तेभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुत्पद्यते, तत् तस्य साक्षादनुत्पत्तेः परोक्षम् , अनुमानवदिति । इदमुक्तं भवतिअपौद्गलिकत्वादमूर्तो जीवः, पौद्गलिकत्वात् तु मूर्तानि द्रव्येन्द्रिय-मनांसि, अमूर्ताच्च मूर्त पृथग्भूतम् , ततस्तेभ्यः पौद्गलिकेन्द्रिय-मनोभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुपजायते, तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षमिह जिनमते परिभाष्यते ॥ इति गाथार्थः ॥१०॥
ये तु वैशेषिकादयोऽक्षमिन्द्रियं प्रति गतं प्रत्यक्षम् , शेषं तु परोक्षमिति मन्यन्ते, तदर्शनमपाकर्तुमाह
केसिंचि इंदिआई अक्खाई, तदुवलद्धि पच्चक्खं । तन्नो, ताइं जमचेअणाई'जाणंति न घडो व्व॥ ९१ ॥
केषांचिद् वैशेषिकादीनां मतेनाऽक्षाणि स्पर्शनादीनीन्द्रियाण्युच्यन्ते, न जीव इति भावः । तदुवलद्धि पञ्चक्खं ति तेषामिन्द्रिपाणी येयं साक्षावटाद्यर्थोपलब्धिर्घटादिज्ञानं तत् प्रत्यक्षम , अन्यत् तु परोक्षमिति । अङ्गीक्रियतां तर्हि तन्मतमित्याह-'तम्रो इत्यादि तदेतद् वैशेषिकादिमतं न युक्तम् , यतस्तानीन्द्रियाण्यचेतनानि, ततश्च न जानन्ति न वस्तुस्वरूपमुपलभन्ते, घटवत् , तथाहि-यदचेतनं तत् सर्वमपि न जानाति, यथा घटादि, अचेतनानि चेन्द्रियाणि, इति कुतस्तेषामुपलब्धिः? या प्रत्यक्षं स्यादिति भावः। तथा इन्द्रियाणां ज्ञानशून्यत्वे मूर्तिमत्त्व-स्पर्शादिमचादयोऽपि हेतवो वाच्याः॥ इति गाथार्थः ॥ ९१॥
_ नन्विन्द्रियाणि न जानन्ति, इति प्रत्यक्षविरोधिनी प्रतिज्ञा, तेषां साक्षात्कारेणाऽर्थोपलब्धेरनुभवप्रत्यक्षेण प्रतिमाणि प्रसिद्धत्वात् , इत्याशझ्याह--
ठेवलद्धा तत्थाऽऽया तव्विगमे तदुवलद्धसरणाओ। गेहगवक्खोवरमे वि तदुवलद्धाऽणुसरिया वा ॥ ९२ ॥
'तत्थ त्ति ' तत्र चक्षुरादीन्द्रिये करणतया व्याप्रियमाणे उपलब्धा वस्तूनां बोद्धा आत्मैव द्रष्टव्यः, न त्विन्द्रियम् । कुतः १, इत्याह- तश्विगमेत्यादि ' तस्य चक्षुरादीन्द्रियस्य विगमेऽभावेऽपीत्यर्थः, तदुपलब्धस्य पराभ्युपगमेनेन्द्रियोपलब्धस्याऽर्थस्य स्मरणात क इव', इत्याह-तेन गृहगवाक्षेण करणभूतेनोपलब्धस्य योषिदाद्यर्थस्य योऽनुस्मर्ता देवदत्तादिः स इव, वाशब्दस्येवार्थत्वात । सति', इत्याह- गृहगवाक्षस्योपरमेऽप्यभावेऽपि सतीत्यर्थः । अत्र प्रयोगः- इह यो येषूपरतेष्वपि तदुपलब्धानाननुस्मरति स तत्रो
१.केषांचिदिन्द्रियाणि अक्षाणि, तदुपलब्धिः प्रत्यक्षम् । तन्न, तानि यदचेतनानि जानन्ति न घट इव ॥ ९ ॥
३ उपलब्धा तत्राऽऽत्मा तद्विगमे तदुपलब्धस्मरणात् । गेहगवाक्षोपरमेऽपि तदुपलब्धाऽनुस्मर्ता वा (इव) ॥ १२ ॥ पलब्धा दृष्टः, यथा गृहगवाक्षोपलब्धानामर्थानां तद्विगमेऽप्यनुस्मा देवदत्तादिः, अनुस्मरति चेन्द्रियविगमेऽपि तदुपलब्धमर्थमात्मा तस्मात् स एवोपलब्धा, यदि पुनरिन्द्रियाण्युपलम्भकानि स्थुः, तदा तद्विगमे कस्याऽनुस्मरणं स्थातान ह्यन्येनोपलब्धेऽर्थेऽन्यस्य स्मरणं युक्तम् , अतिप्रसङ्गात् , अस्ति चाऽनुस्मरणम् । तस्माद् 'न जानन्तीन्द्रियाणि' इति स्थितेयं प्रतिज्ञा, तद्भाधकत्वेनोक्तस्याऽनुभवप्रत्यक्षस्य पथोक्तानुमानबाधितत्वेन भ्रान्तत्वादिति ॥
. अत्राह-कस्येदं दर्शनं यत् खतन्त्राणीन्द्रियाण्युपलब्धिमन्ति ?, वयं हि ब्रूमः- यदिन्द्रिय-मनोनिमित्तमात्मनो ज्ञानमुत्पद्यते तत प्रत्यक्षम् "आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियं चार्थेन" इति वचनादिति । हन्त ! एवं सति परनिमित्तत्वादनुमानवत् परोक्षत्वमस्य प्रागेव ' अक्खस्स पोग्गलकया जदबिदिय-मणा परा तेणं' इत्यादिग्रन्थेनोक्तम् , इति कुतस्तस्य प्रत्यक्षता । अथ ज्ञानशून्येऽपीन्द्रियज्ञाननिमित्तत्वेन साक्षाद् व्याप्रियमाणत्वादुपचारेण ' अक्षमिन्द्रियं प्रति वर्तते' इति प्रत्यक्षता प्रोच्यते । हन्त ! तर्हि 'इन्द्रियोपलब्धिः प्रत्यक्षम्' इत्येतल्लक्षणमिह न घटते, जीवोपलब्धित्वादस्याः। संव्यवहारमात्रेण तु प्रत्यक्षत्वमस्याऽस्माभिरप्यनन्तरमभ्युपगस्यते, इति सिद्धसाध्यतैवं ॥ इति गाथार्थः ॥ ९२ ॥
तदेवमिन्द्रिय-मनोनिमित्तज्ञानस्य परोक्षता प्रतिपाद्य प्रयोगोपन्यासेन तामेव द्रढयन्नाह
इंदिय-मणोनिमित्तं परोक्खमिह संसयादिभावाओ । तकारणं परोक्खं जहेह साभासमणुमाणं ॥ ९३ ॥
यदिन्द्रिय-मनोनिमित्तं ज्ञानमुपजायते तदात्मनः परोक्षम् । कुतः?, इत्याह- संशयादिभावादिति, आदिशब्दाद् विपर्ययाऽनध्यवसाय-निश्चयपरिग्रहः । तत्कारणमिति तानीन्द्रिय-मनांसि कारणं यस्य साभासानुमानस्य सम्यगनुमानस्य च तत् तत्कारणं ज्ञान
रोक्षं दृष्टम, यथा साभासमनुमानं सम्यगनुमान चेत्येवं लुप्तचकारस्य दर्शनाद् दृष्टान्तद्वयामिह द्रष्टव्यम् । तत्र संशय-विपर्ययाऽनध्यवसायसंभवलक्षणे हेतौ प्रथमो दृष्टान्तः, निश्चयसंभवखरूपे तु हेतौ द्वितीयो दृष्टान्तः, तथाहि प्रयोगः-यदिन्द्रिय-मनोनिमित्तं ज्ञानं तत् परोक्षम् , संशय-विपर्यया ऽनध्यवसायानां तत्र संभवात् , इन्द्रिय-मनोनिमित्ताऽसिद्धा-इनैकान्तिक-विरुद्धानुमानाभासवत्, इति प्रथमः प्रयोगः; यदिन्द्रिय-मनोनिमित्तं ज्ञानं तत् परोक्षम् , तत्र निश्चयसंभवात्, धूमादरम्याद्यनुमानवत् , इति द्वितीयः, यत् पुनः प्रत्यक्षं तत्र संशय-विपर्ययाऽनध्यवसाय-निश्चया न भवन्त्येव, यथाऽवध्यादिषु, इति विपर्ययः । ननु निश्चयसंभवलक्षणो हेतुरवध्यादिष्वपि वर्तत
१.गाथा ९०। २ ख. 'मस्मा', ३ इन्द्रिय मनोनिमित्तं परोक्षमिह संशयादिभावात् । तत्कारणं परोक्षं यह साभासमनुमानम् ॥ १३॥ ..
For Private and Personal Use Only