________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
25 विशेषा० । मयोदयोपलन्धरात्रिन्दिवादिवस्तूनां बाधकसंभावनयाऽन्यथात्वकल्पनासंगतिमावहति । न चेहापि दर्शना-ऽदर्शने विहायाऽन्यद् निश्चा। यकं प्रमाणमुपलभामहे । तस्मादेकत्वपरिणत्यापननामादिभेदेष्वेव शब्दादिपरिणतिदर्शनात् सर्वं चतुष्पर्यायं वस्त्विति स्थितम् ॥ । इति गाथार्थः ॥ ७३ ॥
आह- ननु यदि नामादिचतुष्पर्याय सर्व वस्तु, तर्हि किं नामादीनां भेदो नास्त्येव ?, इत्याह
ईय सव्वभेअसंघायकारिणो भिन्नलक्खणा एते । उप्पाया इति यं पिव धम्मा पइवत्थुमाउज्जा ॥ ७ ॥ ..इत्येवं ये पूर्व भिन्नलक्षणा भिन्नस्वरूपा धर्मा नामादयः प्रोक्तास्ते प्रतिवस्त्वायोज्या आयोजनीया इति संबन्धः । कथंभूताः
सन्तः१, इत्याह-भेदश्च संघातश्च भेदसंघातो, सर्वस्य स्वाश्रयभूतवस्तुनो भेदसंघातौ तौ कर्तुं शीलं येषां ते सर्वभेदसंघातकारिणो निजाश्रयस्य सर्वस्याऽपि वस्तुनः कश्चिद् भेदकारिणः, कथश्चित्वभेदकारिण इत्यर्थः, तथाहि- केनचिदिन्द्र इत्युच्चरितेऽन्यः प्राहकिमनेन नामेन्द्रो विवक्षितः, आहोस्वित् स्थापनेन्द्रः, द्रव्येन्द्रः, भावेन्द्रो वा । नामेन्द्रोऽपि द्रव्यतः किं गोपालदारकः, हालिकदारका,
क्षत्रियदारका, ब्राह्मणदारकः, वैश्यदारकः, शूद्रदारको वा? इत्यादि । तथा क्षेत्रतोऽपि नामेन्द्रः किं भारतः, ऐरवतः, महाविदेहजो वा! . इत्यादि । कालतोऽपि किमतीतकालसंभवी, वर्तमानकालभावी, भविष्यन् वा? इत्यादि अतीतकालभाव्यपि किमितोऽनन्ततमसमयभावी,
असंख्याततमसमयभावी, संख्याततमसमयभावी वा ? इत्यादि । भावतोऽपि किं कृष्णवर्णः, गौरवर्णः, दीर्घः, मन्थरो वा ? इत्यादि । तदेवमेकोऽपि नामेन्द्रस्याऽऽश्रयभूतोऽर्थस्तावद् द्रव्य-क्षेत्र-काल-भावभेदाधिष्ठितोऽनन्तभेदत्वं प्रतिपद्यते । तथा स्थापना-द्रव्य-भावाश्रयस्याऽप्युक्तानुसारतः प्रत्येकमनन्तभेदत्वमनुसरणीयम् । इत्येवमेते नामादयो भेदकारिणः । अभेदकारिणस्तहि कथम् ? इति चेत् । उच्यते- यदैकस्मिन्नपि वस्तुनि नामादयश्चत्वारोऽपि प्रतीयन्ते तदाऽभेदविधायिनः, तथाहि- एकस्मिन्नपि शचीपत्यादौ 'इन्द्र' इति नाम, तदाकारस्तु स्थापना, उत्तरावस्थाकारणत्वं तु द्रव्यत्वम् , दिव्यरूप-संपत्ति-कुलिशधारण-परमैश्वर्यादिसंपन्नत्वं तु भाव इति चतुध्यमपि प्रतीयते । तस्मादेवं सर्वस्य खाऽऽश्रयभूतस्य वस्तुनो भेद-संघातकारिणो भिन्नलक्षणा एते नामादयो धर्मा उत्पाद-व्यय-ध्रौव्यत्रिकवत् प्रतिवस्तु आयोजनीयाः परस्पराऽविनाभाविनः प्रतिवस्तु द्रष्टव्या इति तात्पर्यम् ॥ इति गाथार्थः ॥ ७४ ॥ ___ इह च
१ अन्वयव्यतिरेकापरपर्यायी प्रत्यक्षानुपलम्भावित्यर्थः । ख 'पि दर्शनं विहाय'मतो । इति सर्वभेदसंघातकारिणो भिनलक्षणा पते । उत्पावा हति यदिव धर्मा प्रतिवस्वायोज्या: nown ३ . कालभावी वर्तमानकालसंभवी' ।
स्थि नएहि विहणं सत्तं अत्थो अजिणमए किंचि । आसज्ज उ सोआरं नएण य विसारओ ब्या" इति वचनाजिनमते सर्व वस्तु प्रायो नयैर्विचार्यते, अतो नाम-स्थापनादीनपि प्रस्तुतान् नयैर्विचारयन्नाह
नामाइतियं दवट्ठियस्स भावो य पजवनयस्स.। संगह-व्ववहारा पढमगरस सेसा य इयररस ॥ ७५ ॥
एतेषु नामादिषु मध्ये नाम स्थापना-द्रव्यनिक्षेपत्रयं द्रव्यास्तिकनयस्यैवाऽभिमतं न पर्यायास्तिकस्य, नामादिनिक्षेपत्रयस्य विवक्षितभावशून्यत्वात् । पर्यायास्तिकस्य तु भावग्राहित्वादिति । 'भावो' भावनिक्षेपः पुनः पर्यायास्तिकनयस्याऽभिमतो नेतरस्य, तस्य द्रव्यमात्रग्राहित्वेन भावाऽनवलम्बित्वादिति । आह-ननु नया नैगमादयः प्रसिद्धाः, ततस्तैरेवाऽयं विचारो युज्यते, अथ तेऽत्रैव द्रव्यपर्यायास्तिकनयद्वयेऽन्तर्भवन्ति, तर्जुच्यतां कस्य कस्मिन्नन्तर्भावः १, इत्याशङ्क्याह- 'संगहेत्यादि ' नैगमस्तावत् सामान्यग्राही संग्रहेऽन्तर्भवति, विशेषग्राही तु व्यवहार; संग्रहव्यवहारौ तु प्रस्तुतनयद्वयस्य मध्ये प्रथमकस्य द्रव्यास्तिकस्य मतमभ्युपगच्छतः- द्रव्यास्तिकमतेऽन्तर्भवत इति तात्पर्यम्। शेषास्तु ऋजुमूत्रादय इतरस्य द्वितीयस्य पर्यायास्तिकस्य मतमभ्युपगच्छन्तोऽत्रैवाऽन्तर्भवन्तीति हृदयम् । आचार्यसिद्धसेनमतेन चेह ऋजुमुत्रस्य पर्यायास्तिकेऽन्तर्भावो दर्शितः, सिद्धान्ताभिप्रायेण तु संग्रह व्यवहारवद् ऋजुमूत्रस्याऽपि द्रव्यास्तिक एवाऽन्तर्भावो द्रष्टव्यः, तथा चोक्तं सूत्रे
" उजुसुयस्स एगे अणुवउत्ते आगमओ एग दव्वावस्सयं पुहत्तं नेच्छइ" इति । तदनेनाऽस्य द्रव्यवादित्वं दर्शितम् , इति कथं पर्यायास्तिकेऽन्तर्भावः स्यात् १ ॥ इति गाथार्थः॥७५॥ आह-मनु संग्रहादिनया नामनिक्षेपं सर्वमप्येकत्वेनेच्छन्ति भेदेन वा, एवं स्थापनादिनिक्षेपेष्वपि प्रत्येक वक्तव्यम्, इत्याशङ्कयाह9 सामन्नग्गाही संगिण्हइ तेण संगहो निययं । जेण विसेसग्गाही ववहारो तो विसेसेइ ॥ ७६ ॥
१ पृष्ठ २६ । २ नामादित्रिक द्रव्यास्तिकस्य भावश्च पर्यवनयस्य । संग्रह-व्यवहारौ प्रथमकस्य शेषाश्चेतरस्य ॥ ७५॥xपहत-1+त्तियों ३ ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एक द्रव्यावश्यकं पृथक्त्वं नेच्छति । अनुयोगद्वारसूत्रस्थोऽयं पाठः, तट्टीका चेयम् - "उजुसुयस्सेत्यादि-जु भतीता-नागत-परकीयपरिहारेण प्राअलं वस्तु सूत्रयत्यभ्युपगच्छीति ऋजुसूत्रः, अयं हि वर्तमानकालभाग्येव वस्तु अभ्युपगच्छति, नाऽतीतम्, विनष्टत्वात्। नाऽप्यनागतम् , अनुत्पनत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वात् , स्वधनवत्। परकीयं तु मेच्छति स्वकार्याऽप्रसाधकत्वात् , परधनवत् । तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एकं वष्यावश्यकामिति । 'पुहत्तं नेच्छा त्ति' अतीता-ऽनागतभेदतः परकीयभेदतश्च पृथक्त्वं पार्थक्यं नेच्छत्यसौ, किं तर्हि । वर्तमानकालीनं स्वकमेव चाऽभ्युपैति, तथैकमेवेति"।
० यत्त सामान्यमाही संगृहाति तेन संग्रहो नियतम् । येन विशेषग्राही व्यवहारस्तस्माद् विशेषयति ॥ ७॥ (जित),
For Private and Personal Use Only