SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 24 विशेषा० सारमप्यसौ स्यात्, विशेषाभावात् । तथा च सति स एव घटादेस्तादवस्थ्यमसङ्गः । घटाद्युपमर्देनाऽभावो जायते, अतो घटादिनिवतिः, इति चेत् । ननु कोऽयमुपमर्दो नाम १ । न तावद् घटादि, तस्य स्वहेतुत एवोत्पत्तेः । नापि कपालादयः, तद्भावे घटादेस्तादवस्थ्यप्रसङ्गात् । नापि तुच्छरूपोऽभावः, एवं हि सति घटाद्यभावेन घट्टाद्यभावो जायत इत्युक्तं स्यात्, न चैतदुच्यमानं हास्यं न जनयति, आत्मनैवाऽत्मभवनानुपपत्तेः । तस्मात् मुङ्गरादिसहकारिकारणवैसदृश्याद् विसदृशः कपालादिक्षण उत्पद्यते, घटादिस्तु क्षणिकत्वेन निर्हेतुकः स्वरसत एव निवर्तते इत्येतावन्मात्रमेव शोभनम् । अतो हेतुव्यापारनिरपेक्षा एव समुत्पन्ना भावाः क्षणिकत्वेन स्वरसतएव विनश्यन्ति, न हेतुव्यापारात्, इति स्थितम् । तस्माज्जन्म - विनाशयोर्न किञ्चित् केनचिदपेक्ष्यते, अपेक्षणीयाभावाच न किञ्चित् कस्यचित् कारणम् । तथा च सति न किञ्चिद् द्रव्यम्, किन्तु पूर्वापरीभूताऽपरापरक्षणरूपाः पर्याया एव सन्त इति । अत्र बहु-वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनताभयात्, सुगतशास्त्रेषु विस्तरेणोक्तत्वाश्च ।। इति गाथार्थः ॥ ७० ॥ यदपि द्रव्यवादिना 'पिण्डो कारणमिठ्ठे पयं व परिणामओ' इत्याद्युक्तम्, तत्राऽस्माभिरप्येतद् वक्तुं शक्यत एवेति । किम् १, इत्याह Acharya Shri Kailassagarsuri Gyanmandir 'पिण्डो -कजं पइसमयभावाउ जह दहिं तहा सव्वं । कज्जाभावाउँ नत्थि कारणं खरविसाणं व ॥ ७१ ॥ मृदादिपिण्डः कार्यमेव, न तु कारणम् । कुतः ?, इत्याह- प्रतिसमयमपरापरक्षणरूपेण भावात् दध्यादिवदिति । प्रतिसमयमपरापरक्षणभवनमसिद्धमिति चेत् । न, वस्तूनां पुराणादिभावाऽन्यथानुपपत्तेः । उक्तं च " प्रतिसमयं यदि न भवेदपरा पररूपतेह वस्तूनाम् । न स्यात् पुराणभावो न युवत्वं नापि वृद्धत्वम् ॥ १ ॥ जन्मानन्तरसमये न स्याद् यद्यपररूपताऽर्थानाम् । तर्हि विशेषाभावाद् न शेषकालेऽपि सा युक्ता " ॥ २ ॥ किं पिण्ड एवं कार्यम् ? । न, इत्याह- तथा सर्व, यथा प्रतिसमयं भावात् पिण्डः कार्य तथा सर्वमपि घटपटादिकं वस्तुनि - कुरम्बम्, तत एव हेतोः कार्यत्वमपि द्रष्टव्यमित्यर्थः । अनभिमतप्रतिषेधमाह - 'कज्जाभावाड इत्यादि ' पराभ्युपगतं कारणं कारrai वस्तु नास्ति । कुतः १, इत्याह- कार्याभावात् तत्र कार्यत्वाऽभ्युपगमाभावात् प्रतिसमयभवनानभ्युपगमादित्यर्थः । इह यत् प्रतिसमयमपरापररूपेण न भवति तद् वस्तु नास्ति, यथा खरविषाणम्, प्रतिसमयमभवन्तश्चाऽभ्युपगम्यन्ते परैर्मृत्पिण्डादयः, तस्माद् न सन्तीति भावः ॥ इति गाथार्थः ॥ ७१ ॥ * मेव ॥ १ स्वभावात् । २ गाथा ६८ । ३ पिण्डः कार्य प्रतिसमयभावाद् यथा दधि तथा सर्वम् । कार्याभावाद् नास्ति कारणं खरविषाणमिव ॥ ७१ ॥+ ओ-1 तदेवं नामादिनयानां परस्परविप्रतिपत्तिमुपदश्यपसंहारपूर्वकं मिथ्येतरभावं दर्शयितुमाह एवं विवयंति नया मिच्छाभिनिवेसओ परोप्परओ । इयमिह सव्वनयमयं जिणमयमणवज्जमच्चंतं ॥७२॥ 9 एवमुक्तप्रकारेण परस्परतो मिथ्याभिनिवेशाद् विवदन्ते विवादं कुर्वन्ति नामनयादयो नयाः । ततश्च मिथ्यादृष्टय एते, असंपूर्णार्थग्राहित्वात् गजगात्रभिन्नदेश संस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवत् । यदि नामैते मिथ्यादृष्टयः तर्हि निर्मिथ्यं किम् ?, इत्याह- इदमिदैव लोके वर्तमानमनुभवप्रत्यक्षसिद्धं जिनमतं जैनाभ्युपगमरूपम् । कथंभूतम् १, सर्वनयमयं निःशेषनयसमूहाभ्युपगमनतम् अत्यन्तमनत्रयं नामादिनयपरस्परोद्भाविताऽविद्यमाननिःशेषदोषं, संपूर्णार्थग्राहित्वात् चक्षुष्मतां समन्तात् समस्तहस्तिशरीरदर्शनोल्लापवत् ।। इति गाथार्थः ॥ ७२ ॥ तथा च संपूर्णार्थग्रहरूपं जिनमतमेव दर्शयति नौमाइ भेअसद-त्थ- बुद्धिपरिणामभावओ निययं । जं वत्थुमत्थि लोए चउपज्जायं तयं सव्वं ॥ ७३ ॥ घटपटादिकं यत् किमपि वस्त्वस्ति लोके, तत् सर्वं प्रत्येकमेव नियतं निश्चितं चत्वारः पर्याया नामा - ssकार - द्रव्य-भावलक्षणा यत्र तच्चतुष्पर्यायम् ; न पुनर्यथा नामादिनयाः प्राहुर्यथा - केवलनाममयं वा, केवलाकाररूपं वा, केवलद्रव्यताश्लिष्टं वा, केवलभावात्मकं वेति भावः । कुतश्चतुष्पर्यायमेव ?, इत्याह- 'नामादिभेएत्यादि' नामादिभेदेष्वेकत्वपरिणति संवलितनामा - SSकार-द्रव्य-भावेष्वेवेत्यर्थः, शब्दश्वाऽर्थव बुद्धि शब्दार्थ बुद्धयस्तासां परिणामस्तस्य भावः सद्भावस्तस्मात्, नामादिभेदेषु समुदितेष्वेव योऽयं शब्दार्थ-बुद्धीनां परिणामसद्भावस्तस्माद्धेतोः सर्व चतुष्पर्यायं वस्त्वित्यर्थः । प्रयोगः - यत्र शब्दार्थ बुद्धिपरिणामसद्भावः, तत् सर्वं चतुष्पर्यायम्, चतुष्प त्वाभावे शब्दादिपरिणामभावोऽपि न दृष्टः, यथा शशशृङ्गे, तस्माच्छन्दादिपरिणामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमिति भावः इदमुक्तं भवति - अन्योऽन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वेन परिणतिर्दृष्टा, अर्थस्यापि पृथुवुनोदराद्याकारस्य नामादिचतुष्टयात्मकतयैव परिणामः समुपलब्धः, बुद्धेरपि तदाकार ग्रहणरूपतया परिणतिस्तदात्मन्येव वस्तुन्यवलोकिता । न चेदं दर्शनं भ्रान्तम्, बाधकाभावात् । नाप्यदृष्टाशङ्कयाऽनिष्टकल्पना युक्तिमती, अतिप्रसङ्गात् ; न हि दिनकराऽस्त १ एवं विवदन्ति नया मिथ्याभिनिवेशतः परस्परतः । इदमिह सर्वनयमयं जिनमतमनवद्यमत्यन्तम् ॥ ७२ ॥ २ नामादिभेदशब्दा - sर्थ- बुद्धिपरिणामभावतो नियतम् । यद् वस्वस्ति लोके चतुष्पर्यायं तत् सर्वम् ॥ ७३ ॥ For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy