________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा
नैवम् , आविर्भाव-तिरोभावमात्र एव कार्योपचारात् , उपचारस्य चाऽवस्तुत्वात् । इति स्वपक्षं व्यवस्थाप्य परपक्षं दूषयितुमाह-'आगारेत्यादि' द्रव्यमानं विहाय स्थापनादिनयैर्यदाऽऽकारादिकमभ्युपगम्यते, तत् सर्वमवस्तु । कुतः १, इत्याह-निष्कारणत्वात् कारणमात्ररूपतयाऽनभ्युपगमात् , तदभ्युपगमे त्वस्मत्पक्षवर्तित्वप्रसङ्गात् , इह यत् कारणं न भवति तद्न वस्तु, यथा गगनकुसुमम् , अकारणं च परैरभ्युपगम्यते सर्वमाकारादिकम् , अतोऽवस्तु ।। इति. गाथार्थः ॥ ६८॥
तदेवं द्रव्यनयेन स्वपक्षे व्यवस्थापिते भावनयः प्राह__ भौवत्थंतरभूअं किं दव्वं नाम भाव एवायं । भवनं पइक्खणं चिय भावावत्ती विवत्ती य ॥ ६९ ॥
भावेभ्यः पर्यायेभ्योऽर्थान्तरभूत भिन्नं किं नाम द्रव्यम् , येनोच्यते-'देवपरिणाममित्तमित्यादिननु भाव एवाऽयं यदिदं दृश्यते त्रिभुवनेऽपि वस्तुनिकुरम्बमिति । यदि हि किश्चिदनादिकालीनमवस्थितं सद् वस्तु वस्त्वन्तरारम्भे व्याप्रियेत तदा न्याय्या स्यादियं कल्पना, यावता प्रतिक्षणं भवनमेवाऽनुभूयते । किमुक्तं भवति', इत्याह-भावस्यैकस्य पर्यायस्याऽऽपत्तिरुद्भूतिः, अपरस्य तु विपत्तिर्विनाशः।
"नै निहाणगया भग्गा पुञ्जो नत्थि अणागए । निवुया नेय चिट्ठति आरग्गे सरसवोवमा" ॥१॥ इति वचनात् पूर्वस्य क्षणस्य निवृत्तिः, अपरस्य तूत्पत्तिरित्यर्थः ।। इति गाथार्थः ॥ ६९ ।।
आह-ननु ये भावस्याऽऽपत्ति-विपत्ती प्रोच्येते ते तावद्धत्वन्तरमपेक्ष्य भवतः, यच्च हेत्वन्तरमपेक्षते तदेवाजस्थितं कारणं, तदेव द्रव्यम् , अतो ' भावत्यंतरभूअं किं दव्वं ' इत्यादिनाऽयुक्तमेव द्रव्यमपाक्रियते, इत्याशङ्क्याह
ने य भावो भावन्तरमवेक्खए किन्तु हेउनिरवेक्खं । उप्पज्जा तयणन्तरमवेइ तमहउअंचेव ॥ ७०॥
न च भावो घटादिरुत्पद्यमानो भावान्तरं मृत्पिण्डादिकमपेक्षते, किन्तुनिरपेक्ष एवोत्पद्यते । अपेक्षा हि विद्यमानस्यैव भवति । न च मृत्पिण्डादिकारणकाले घटादि कार्यमस्ति, अविद्यमानस्य चाऽपेक्षायां खरविषाणस्याऽपि तथाभावप्रसङ्गात । यदि चोत्पत्तिक्षणात् प्रागपि घटादिरस्ति, तर्हि किं मृत्पिण्डाद्यपक्षया , तस्य स्वत एव विद्यमानत्वात् । अथोत्पन्नः सन् घटादिः पश्चाद्
घरस्य) यारो
भावार्थान्तरभूतं किं द्रव्यं नाम, भाव एवाऽयम् । भवनं प्रतिक्षणमेव भावापत्सिर्विपत्तिश्च ॥ १९॥२ गाथा ६६+कार्थत्यो। ३ न मिधानगता भग्ना पुजो नास्त्यनागते । निर्वता नैव तिष्ठन्ति आराग्रे सर्पपोपमाः॥१॥ ४ गाथा ६९। मेत्त-दि.द.॥
५ न च भावो भावान्तरमपेक्षते किन्तु हेतुनिरपेक्षम् । उत्पद्यते तदनन्तरमपैति सदहेतुकं चैव ॥w.x कार्यस्योपचारस्य वस्तुत्वान। मृत्पिण्डादिकमपेक्षते । हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् , यदि हि खत एव कथमपि निष्पन्नो घटादिः, किं तस्य पश्चाद् मृत्पिण्डाद्यपेक्षया । अथोत्पद्यमानतावस्थायामसौ तमपेक्षते । केयं नामोत्पद्यमानता? | न तावदनिष्पन्नावयवता, खयमनिपन्नस्य खरविषाणस्येवाऽपेक्षाऽयोगात । नापि निष्पन्नावयवता, स्वयं निष्पन्नस्य परापेक्षावैयर्थ्यात् । नाप्यर्धनिष्पन्नावयवता, वस्तन: सांशताप्रसङ्गात् । तत्र चावयविकल्पनादावनेकदोषोपनिपातसंभवात् । किश्च, सांशतायामपि किमनिष्पन्नोंशः कारणमपेक्षते, निष्पन्नो वा, उभयं वा । न तावदाद्यपक्षद्वयम् , निष्पन्ना-ऽनिष्पन्नयोरपेक्षायाः प्रतिपिद्धत्वात् । उभयपक्षोऽपि न श्रेयान् , उभयपक्षोक्तदोपप्रसङ्गात् । तस्माद् मृत्पिण्डाद्युत्तरकालं भवनमेव घटादेस्तदपेक्षा, मृत्पिण्डादेरपि कार्यत्वाभिमताद् घटादेः प्राग्भावित्वमेव कारणत्वम्, न पुनर्घटादिजन्मनि व्याप्रियमाणत्वम् । व्यापारो हि तद्वतो भिन्नः, अभिन्नो वा? यदि भिन्नः, तर्हि तस्य निर्व्यापारतापसङ्गः । अथाऽभिन्नः, तर्हि व्यापाराऽभावः । कारणव्यापारजन्यं जन्मापि जन्मवतो भिन्नम्, अभिन्नं वा । भेदे जन्मवतोऽजन्मप्रसङ्गः। अभेदे तु, जन्माभावः। तस्मात् पूर्वोत्तरकालभावित्वमात्रेणैवाऽयं कार्य-कारणभावो वस्तूनां लोके प्रसिद्धः, न जन्य-जनकभावेन । यदपि मृत्पिण्ड-घटादीनां पूर्वोत्तरकालभावित्वम् , तदप्यनादिकालात तथाप्रवृत्तक्षणपरम्परारूढम् , न पुनः कस्यचित केनचिद् निर्वर्तितम् , इति न कस्यचिद् भावस्य कस्यापि संबन्धिन्यपेक्षा । ततो हेत्वन्तरनिरपेक्ष एव सर्वो भावः समुत्पद्यत इति स्थितम् । विनश्यति तर्हि कथम् ?, इत्याह-'तयणन्तरमित्यादि' तदनन्तरमुत्पत्तिसमनन्तरमेवाऽपैति विनश्यति भावः। तदपि च विनशनमहेतुकमेव । मुद्गरोंपनिपातादिसव्यपेक्षा एव घटादयो विनाशमाविशन्तो दृश्यन्ते, न निर्हेतुकाः, इति चेद् । नैवम् , विनाशहेतोरयोगात् , तथाहि-मुद्रादिना विनाशकाले किं घटादिरेव क्रियते, आहोस्वित् कपालादयः, उत तुच्छरूपोऽभावः ? इति त्रयी गतिः । तत्र न तावद् घटादिः, तस्य खहेतुभूतकुलालादिसामग्रीत एवोत्पत्तेः । नापि कपालादयः, तत्करणे घटादेस्तदवस्थत्वप्रसङ्गात्, न ह्यन्यस्य करणेऽन्यस्य निवृत्तियुक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्यापि निवृत्तिप्रसङ्गात् । नापि तुच्छरूपोऽभावः, खरशृङ्गस्येव नीरूपस्थ तस्य कर्तुमशक्यत्वात् , करणे वा घटादेस्तदवस्थताप्रसङ्गात् , अन्यकरणेऽन्यनिवृत्त्यसंभवात् । घटादिसंबन्धेनाऽभावो विहितस्तेन घटादेर्निवृत्तिः, इति चेत् । न, संबन्धस्यैवाऽनुपपत्तेः, तथाहि-किं पूर्व घटः पश्चादभावः, पश्चाद् वा घटः पूर्वमभावः, समकालं वा घटाभावी ? इति विकल्पत्रयम् । तत्राऽऽद्यविकल्पद्वयपक्षे संवन्धानुपपत्तिरेव, संबन्धस्य द्विष्ठत्वेन भिन्नकालयोस्तदसंभवात् , अन्यथा भविष्यच्छङ्खचक्रवादीनामतीतैः सगरादिभिरपि संबन्धप्राप्तः। तृतीयविकल्पपक्षेऽपि घटा-ऽभावयोर्यदि क्षणमात्रमपि सहावस्थितिरभ्युपगम्यते, तास
१ख. 'वयवविक'। २ क, 'अथ चाइभिन्नः'।
For Private and Personal Use Only